पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रम् पा. ४ सू. २७ ] यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्वीजसत्तानुमीयते, तथा मोक्षमार्ग- श्रवणेन यस्य रोमहर्षा श्रुपातौ दृश्येते, तत्राप्यस्ति विशेषदर्शनबीज मपवर्ग- भागीयं कर्माभिनिर्वर्तितमित्यनुमीयते । तस्यात्मभावभावना स्वाभाविकी प्रवर्तते, यस्याभावादिदमुक्तं - स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचि- र्भवत्यरुचिश्व निर्णये भवति । तत्रात्मभावभावना - कोऽहमासं, कथमहमासं, किंस्विदिदं, कथंस्विदिदं, के भविष्यामः, कथं वा भविष्याम इति । सा तु विशेषदर्शिनो निवर्तते । कुतः ? चित्तस्यैवैष विचित्रः परिणामः, पुरुष- स्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मेरपरामृष्ट इति । ततोऽस्यात्मभावभावना कुशलस्य विनिवर्तत इति ।। २५ ।। तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत् भवति कैवल्यप्राग्भारं विवेक 'ज्ञाननिम्नमिति ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ तदस्यान्यथा नैव नास्ति नास्तिकस्य, तस्योपदेशानधिकृतस्यापरिनिश्चितात्मतत्परलोकभावस्य नोपदेशो न विशेषदर्शनं नात्मभावभावनानिवृत्तिरिति सूत्रार्थः । नन्वात्मभाव- भावनायश्चित्तवर्तिन्याः कुतोऽवगम इत्यत आह - यथा प्रावृषीति । प्राग्भवीयं तत्त्वदर्शनबी जमपवर्गभागीयं यत्कर्माष्टाङ्गयोगानुष्ठानं तदेकदेशानुष्ठानं वा तद- भिनिर्वर्तितमस्तीत्यनुमीयते । तस्य चात्मभावभावनावश्यमेव स्वाभाविकी वस्त्वभ्यासं विनापि प्रवर्तते । अनधिकारिणमागमिनां वचनेन दर्शयति- यस्याभावादिदमिति । पूर्वपक्षो-नास्ति कर्मफलं परलोकिनोऽभावात्परलोका- भाव इति । तत्र रुचिः । अरुचिश्च निर्णये पञ्चविंशतितत्त्वविषये । आत्मभाव भावना प्राग्व्याख्याता ( २।३६ टीका द्र० ) । विशेषदर्शिनः परामर्शमाह - चित्तस्यैवेति। अस्य विशेषदर्शनकुशलस्यात्मभावभावना विनिवर्तत इति ||२५|| अथ विशेषदर्शिनः कीदृशं चित्तमित्यत आइ- तदा विवेकनिम्नं कैवल्य- प्राग्भारं चित्तम् । निगदव्याख्यातम् ||२६|| स्यादेतत्—विशेषदर्शनं चेद्विवेकनिष्ठं न जातु चित्तं व्युत्थितं स्यात् । दृश्यते चास्य भिक्षामटतो व्युत्थितमित्यत आह - तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । प्रत्ययेति । प्रतीयते येन स प्रत्ययश्चित्तसत्त्वम् । तस्माद्विवेकश्चितेः। । १. यद्यपि सर्वेषु संस्करणेषु विवेकजज्ञाननिम्नमिति पठ्यते तथापि सम्यक् पाठस्तु विवेकज्ञाननिम्नमित्येवेति भूमिकायां विचारितम् । MINE TEST PA