पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बाचस्पतिकृतटीकायुक्त व्यासभाष्यसमेतम् [पा. ४ सू. २५ कुतश्चैतत्- तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥ तदेतच्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थ परस्य भोगा- पवर्गार्थं न स्त्रार्थं संहत्यकारित्वाद् गृहवत् । संहत्यकारिणा चित्तेन न स्त्रार्थेन भवितव्यम् । न सुखचित्तं सुवार्थ, न ज्ञानं ज्ञानार्थम् । उभयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थेनार्थवान्पुरुषः स एव परः । न परः सामान्यमात्रम् । यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद् वैनाशिकस्तत्सर्व संहृत्य- कारित्वात्परार्थमेत्र स्यात् । यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ।। २४ ।। विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५ ॥ १७७ चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति–कुतश्चेति । तद्संख्येय- वासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् । यद्यप्यसंख्येयाः कर्मवासनाः क्लेशवासनाश्च चित्तमेवाधिशेरते न तु पुरुषम् । तथा च वासनाधीना विपाका- श्चित्ताश्रयतया चित्तस्य भोक्तृतामावहन्ति, भोक्तुरर्थे च भोग्यमिति सर्व चित्तार्थं प्राप्तम्, तथापि तच्चित्तमसंख्येयवासनाविचित्रमपि परार्थम् । कस्मात् १ संहत्यकारित्वादिति सूत्रार्थः । व्याचष्टे तदेतदिति । स्यादेतत् – चित्तं संहत्यापि करिष्यति, स्वार्थं च भविष्यति, कः खलु विरोध इति यदि कश्चिद् ब्रूयात्त प्रत्याह–संहत्यकारिणेति । सुखचित्तमिति भोगमुपलक्षयति । तेन दुःख- चित्तमपि द्रष्टव्यम् । ज्ञानमित्यपवर्ग उक्तः । एतदुक्तं भवति - सुखदुःखे चित्ते प्रतिकूलानुकूलात्मके नात्मनि संभवतः स्वात्मनि वृत्तिविरोधात् । न चान्योऽपि संहत्यकारी साक्षालरम्परया वा सुखदुःखे विदधानस्ताभ्यामनुकूल- नीयः प्रतिकूलनीयो वा । तस्माद्यः साक्षात्परमरथा वा न सुखदुःखयोर्व्या- प्रियते स एवाभ्यामनुकूलनीयः प्रतिकूलनीयो वा । स च नित्योदासोनः पुरुष एवमपवज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्रत्वात्स्वात्मनि च वृत्तिविरोधान्न- ज्ञानार्थत्वम् । न बाह्यविषयादस्मादपवर्गसंभवोऽस्ति, विदेहप्रकृतिलयानाम- पवर्गासंभवात् । तस्मात्तज्ज्ञानमपि पुरुषार्थमेव, न तत्स्वार्थं नापि परमात्रार्थम् । संहतपरार्थत्वे चानवस्थाप्रसङ्गादसंहतपरार्थसिद्धिरिति ॥ २४ ॥ तदेवं कैवल्यमूलबीजं युक्तिमयमात्मदर्शनमुक्त्वा तदुपदेशाधिकृतं पुरुष- मनधिकृतपुरुषान्तराद्वयावृत्तमाह-विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः । यस्यात्मभावे भावनास्ति तस्याष्टाङ्गयोगोपदेशाननुतिष्ठतो युञ्जानस्य तत्परि- पाकाच्चित्तसत्त्वपुरुषयोर्विशेषदर्शनादात्मभावभावना निवर्तते । यस्यात्मभावभाव- १२ यो० सू०