पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३ वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् मात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश्च युक्त इति । वृत्तिरेवास्य विभुनश्चित्तस्य संकोचविकासिनीत्याचार्यः । [पा. ४ सू. १० न चाननुभूयमानक्रमकल्पनायां प्रमाणमस्ति । न चैकमणु मनो नानादेशै- रिन्द्रियैरपर्यायेण संबन्धुमर्हति । तत्वारिशेष्यात्कायपरिमाणं चित्तं घटप्रासाद- वर्तिप्रदीवत् । संकोच विकासौ पुत्तिका हस्तिदेह योरस्योत्पत्स्येते । शरीरपरिमाण- मेवाकारः परिमाणं यस्येत्यरे प्रतिपन्नाः । नन्वेवं कथमस्य क्षेत्रबीजसंयोगः । न खल्वेतदनाश्रयं मृतशरीरान्मातृपितृदेहवर्तिनी लोहितरेतसी प्राप्नोति, पर- तन्त्रत्वात् । न हि स्थाण्वादिष्वगच्छत्सु तच्छाया गच्छति । न चागच्छति पटे तदाभयं चित्रं गच्छति । तथा च न संसार: स्यादित्यत आह- तथा चान्तराभावः संसारच युक्त इति । तथा च शरीरपरिमाणत्वे देहान्तर- प्राप्तये पूर्वदेहत्यागो देहान्तरप्राप्तिश्चान्तरास्यातिवाहिकशरीरसंयोगाद् भवतः । तेन खल्वयं देहान्तरे सञ्चरेत् । तथा च पुराणम्- अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् । ( महाभा० वन० ३।२६७(१७) सोऽयमन्तराभावः । अत एव संसारश्च युक्त इति । तदेतदमृष्यमाणः स्वमतमाह-वृत्तिरेवास्य विभुनश्चिन्तस्य सङ्कोच- विकासिनीत्याचार्यः स्वयंभूः प्रतिपेदे । इदमत्राकूतम् – यद्यनाश्रयं चित्तं न देहान्तरसञ्चारि कथमेतदातिवाहिकमाश्रयते । तत्रापि देहान्तरकल्पनायामन- वस्था । न चास्य देहान्निष्कर्ष आतिवाहिकस्य सम्भवति । निष्कृष्टस्य चेतस- स्तत्सम्बन्धात् । अस्तु तर्हि सूक्ष्मशरीरमेवा सर्गादा च प्रलयान्नियतं चित्तानाम- घिष्ठानं षाटकौशिकशरीरमध्यवर्ति । तेन हि चित्तमा सत्यलोकादा चावीचे- स्तत्र तत्र शरीरे सञ्चरति । निष्कर्षश्चास्योपपन्नः षाट्कौशिकात्कायात् । तत्र हि तदन्तराभावस्तस्य नियतत्वात् । न चास्यापि सद्भावे प्रमाणमस्ति । न खल्वेतदध्यक्षगोचरः। न च संसारोऽस्यानुमानम्, आचार्यमतेनाप्युपपत्तेः । आगमस्तु पुरुषस्य निष्कर्षमाह। न च चित्तं वा सूक्ष्मशरीरं वा पुरुषः, किंतु चितिशक्तिरप्रतिसंक्रमा । न चास्या निष्कर्षः संभवतीत्यौपचारिको व्याख्येयः । तथा च चितेश्चित्तस्य च तत्र तत्र वृत्त्यभाव एक निष्कर्षार्थः । यच्च स्मृतीतिहास- पुराणेषु मरणानन्तरं प्रेतशरीरप्राप्तिस्तद्विमोकश्च सपिण्डीकरणादिभिरित्युक्तं तदनुजानीमः । आतिवाहिकत्वं तस्य न मृष्यामहे । न चात्रास्ति कश्चिदागमः। लब्धशरीर एव च यमपुरुषैरपि पाशबद्धो नीयते । न त्वातिवाहिकशरीरः । तस्मादाहङ्कारिकत्वाच्चेतसोऽहङ्कारस्य च गगनमण्डलवस्त्रैलोक्यव्या पित्वा द्विभुत्वं मनसः । एवं चेदस्य वृत्तिरपि विभ्वीति सर्वज्ञतापत्तिरित्यत उक्तं वृत्तिरेवास्येति ।