पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ पा. ४ सू. १० ] पातञ्जलयोगसूत्रम् भूयासमिति सर्वस्य दृश्यते सा न स्वाभाविकी। कस्मात् ? जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् ? नच स्वाभाविकं वस्तु निमित्तमुपादत्ते । तस्मादनादिवासनानु- बिद्धमिदं चित्तं निमित्तवशात्काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति । घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरप्रिमाणाकार- तु वासनानामनादित्वे नित्यत्वाव्यभिचारादिति । ननु स्वाभाविकत्वेनाप्युपपत्तेर- सिद्धमाशिषो नित्यत्वमित्यत आह - येयमिति । नास्तिकः पृच्छति-कस्मात् । उत्तरम् - जातमात्रस्य जन्तोरिति । अत एवैतस्मिञ्जन्मन्यननुभूत मरण धर्मकस्य मरणमेव धर्मः सोऽननुभूतो येन स तथोक्तस्तस्य मातुरङ्कात्प्रस्खलतः कम्पमानस्य माङ्गल्यचक्रादिलाच्छितं तदुरःसूत्रमतिगाढं पाणिग्राहमवलम्बमानस्य बालकस्य कम्पमेदानुमिता द्वेषानुषते दुःखे या स्मृतिस्तन्निमित्तो मरणत्रासः कथं भवेदिति । ननूक्तं स्वभावादित्यत आह - न च स्वाभाविकं वस्तु निमित्त- मुपादत्ते गृह्णाति स्वोत्पत्तौ । एतदुक्तं भवति — बालकस्येहशो दृश्यमानः कम्पो भयनिबन्धन ईदृशकम्पत्वादस्मदादिकम्पवत् । बालकस्य भयं द्वेषदुःख- स्मृतिनिमित्तं भयत्वादस्मदादिभयवत् । आगामिप्रत्यवायोत्प्रेक्षालक्षणं च भयं न दुःखस्मृतिमात्राद्भवति, अपि तु यतो बिभेति तस्य प्रत्यवायहेतुभाव- मनुमाय संप्रत्यपि प्रत्यवायं भयं च विदध्यादिति । तस्माद्यज्जातीयादनु- भूतचराद् द्वेषानुषक्तं दुःखमुपपादितं तस्य स्मरणात् तज्जातीयस्यानुभूयमानस्य तद्- दुःखहेतुत्वमनुमाय ततो बिभेति । न च बालकेनास्मिञ्जन्मनि स्खलन स्थान्यत्र दुःखहेतुत्वमवगतम् | न च तादृशं दुःखमुपलब्धम् । तस्मात्प्राग्भवीयोऽनुभवः परिशिष्यते । तच्चैतदेवं प्रयोगमारोहति — जातमात्रस्य बालस्य स्मृतिः पूर्वा- नुभवनिबन्धना स्मृतित्वादस्मदादिस्मृतिवदिति । न च पद्मसंकोचविकासावपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरमपेक्षते । वहेरौष्ण्यं प्रत्यपि कार- णान्तरापेक्षाप्रसङ्गात् । तस्मादागन्तुकमरुणकरसंपर्कमात्रमेव कमलिनीविकास- कारणम् । संकोचकारणं च संस्कारः स्थितिस्थापक इति । एवं स्मिताद्यनुमितहर्षा- दयोऽपि प्राचि भवे हेतवो वेदितव्याः । तदास्तां तावत् । प्रकृतमुपसंहरति- तस्मादिति । निमित्तं लब्धविपाककालं कर्म । प्रतिलम्भोऽभिव्यक्तिः । प्रसङ्गतश्चित्तपरिमाणविप्रतिपत्ति निराचिकीर्षुर्विप्रतिपत्तिमाह - घटप्रासा- देति । देहप्रदेशवर्तिकार्यदर्शनादेहाद्वहिः सद्भावे चित्तस्य न प्रमाणमस्ति । न चैतदणुपरिमाणम् । दीर्घशष्कुलीभक्षणादावपर्यायेण ज्ञानपञ्चकानुत्पादप्रसङ्गात् ।