पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७ वाचस्पतिकृतटीकायुतम्यासभाष्यसमेतम् [ पा. ४ सू. ३ तत्र कायेन्द्रियाणामन्यजातिपरिणतानाम्- जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥ पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेपाम पूर्वावयवानुप्रवेशाद्भवति । कायेन्द्रियप्रकृतयश्च स्वं स्त्रं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्ष- माणा इति ॥ २ ॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥ न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति । न कार्येण कारणं प्रवर्तत इति । कथं तर्हि, वरणभेदस्तु ततः क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नाप पाणिनापकर्षत्यावरणं त्वासां भिनत्ति, तस्मिन्भिन्ने स्वयमेवापः केदारान्तर- माप्लावयन्ति, तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति, तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति । यथा वा स एव क्षेत्रिक- अथ चतसुषु सिद्धिष्वौषधादिसाधनासु तेषामेव कायेन्द्रियाणां जात्यन्तर- परिणतिरिष्यते । सा पुनर्नतावदुपादानमात्रात् । न हि तावन्मात्रमुपादानं न्यूनाधिकदिव्यादिव्यभावेऽस्य भवति । खल्वविलक्षणं कारणं कार्यवैलक्ष- ण्यायालम् । मास्याकस्मिकत्वं भूदित्याशङ्कय पूरयित्वा सूत्रं पठति — तत्र कायेन्द्रियाणामन्यजातिपरिणतानां - जात्यन्तर परिणामः प्रकृत्यापूरात् । मनु- घ्यजातिपरिणतानां कायेन्द्रियाणां यो देवतिर्यग्ज/तिपरिणामः स खलु प्रकृत्या- पूरात् । कायस्य हि प्रकृतिः पृथिव्यादीनि भूतानि । इन्द्रियाणां च प्रकृति- रस्मिता । तदवयवानुप्रवेश आपूरस्तस्माद्भवति । तदिदमाह-पूर्वपरिणामेति । ननु यद्यापूरेणानुग्रहः कस्मात्पुनरसौ न सदातन इत्यत आह – धर्मादीति । तदनेन तस्यैव शरीरस्य बाल्यकौमारयौवनवार्धकादीनि च न्यग्रोधधानाया न्यग्रोधतरुभावश्च वह्निकणिकायास्तृणराशिनिवेशिताया वा प्रोद्धवज्वालासहस्र- समालिङ्गितगगनमण्डलत्वं च व्याख्यातम् ॥ २ ॥ प्रकृत्यापूरादित्युक्तम् । तत्रेदं संदिह्यते - किमापूरः प्रकृतीनां स्वाभाविको- धर्मादिनिमित्तो वेति ! किं प्राप्तम् ? सतीष्वपि प्रकृतिषु कदाचिदापूराद्धर्मादिनि- मित्तश्रवणाच तन्निमित्त एवेति प्राप्तम् । एवं प्राप्त आह-निमित्तम प्रयोजकं प्रकृ तीनां वरणभेदस्तु ततः क्षेत्रिकवत् । सत्यं धर्मादयो निमित्तं न तु प्रयोजकाः ।