पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् पातञ्जलयोगसूत्रम् तत्र कैवल्यपादः चतुर्थः जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः ॥ १ ॥ देहान्तरिता जन्मना सिद्धिः । ओषधिभिरसुरभवनेषु रसायनेनेत्येव- मादि । मन्त्रैराकाशगमनाणिमादिलाभः । तपसा संकल्पसिद्धिः कामरूपी यत्र तत्र कामग इत्येवमादि । समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥ तदेवं प्रथमद्वितीय तृतीयपादैः समाधितत्साधनतद्विभूतयः प्राधान्येन व्युत्पा- दिताः । इतरत्तु प्रासङ्गिक मौपोद्धातिकं चोक्तम् । इहेदानीं तद्धेतुकं कैवल्य व्युत्पादनीयम् । न चैतत्कैवल्यभागीयं चित्तं परलोकं च परलोकिनं विज्ञाना- तिरिक्तं चित्तकरण कसुखाद्यात्मकशब्दाद्युपभोक्तारमात्मानं च प्रसंख्यानपरम- काष्ठां च विना व्युत्पाद्य शक्यं वक्तुमिति तदेतत्सर्वमत्र पादे व्युत्पादनीय- भितरच्च प्रसङ्गादुपोद्धाताद्वा । तत्र प्रथमं सिद्धचित्तेषु कैवल्यभागीयं चित्तं निर्धारयितुकामः पञ्चतय सिद्धिमाह - जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः । व्याचष्टे-देहान्तरितेति । स्वर्गोपभोगभागीयात्कर्मणो मनुष्यजातीयाचरितात्कुत- श्चिन्निमित्ताल्लब्धपरिपाकात्कचिद्देवनिकाये जातमात्रस्यैव दिव्यदेहान्तरिता सिद्धिरणिमाद्या भवतीति । ओषधिसिद्धिमाह-असुरभवनेष्विति। मनुष्यो हि कुतश्चिन्निमित्ताद सुरभवनमुपसंप्राप्तः कमनीयाभिरसुरकन्याभिरुपनीतं रसायनमु पयुज्याजरामरणत्वमन्याश्च सिद्धीरासादयति । इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनी रसोपयोगाद्विन्ध्यवासीति । मन्त्रसिद्धि माइ–मन्त्रैरिति । तपः सिद्धिमाह—तपसेति । सङ्कल्पसिद्धिमाह-कामरूपीति । यदेव कामयतेऽणि- मादि तदेकपदेऽस्य भवतीति । यत्र कामयते श्रोतुं वा मन्तुं वा तत्र तदेव शृणोति मनुते बेति। आदिशब्दाद्दर्शनादयः संगृहीता इति। समाभिजाः सिद्धयो व्याख्याता अधस्तने पादे ॥ १ ॥