पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५ वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. ३ सू. ५५ चोपक्रान्तम् । परमार्थतस्तु ज्ञानाददर्शनं निवर्तते । तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः। क्लेशाभावात्कर्मविपाकाभावः । चरिताधिकाराश्चैतस्यामवस्थायां गुणा न पुरुषस्य दृश्यत्वेन पुनरुपतिष्ठन्ते । तत्पुरुषस्य कैवल्यम्, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवली भवति ॥ ५५ ।। इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यासभाष्ये विभूतिपादस्तृतीयः ॥ ३ ॥ शुद्धिद्वारेणेति । इत्थम्भूतलक्षणे तृतीया । नात्यन्तमहेतवः कैवल्ये विभूतय किंतु न साक्षादित्यर्थः । ज्ञानं विवेकमुपक्रान्तम् । यच्च पारम्पर्येण कारणं तदौपचारिकं न तु मुख्यम् । परमार्थतस्तु ख्यातिरेव मुख्यमित्यर्थः । ज्ञानादिति प्रसंख्यानादित्यर्थः ॥ ५५ ।। अत्रान्तरङ्गाण्यङ्गानि परिणामाः प्रपञ्चिताः । संयमाद्भूतिसंयोगस्तासु ज्ञानं विवेकजम् ॥ इति श्रीवाचस्पतिमि श्रविरचितायां पातञ्जलभाष्यव्याख्यायां तत्त्ववैशारद्यां विभूतिपादस्तृतीयः ||३||