पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ पा. ४ सू. ५ ] पातञ्जलयोगसूत्रम् स्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुम् । किं तर्हि मुद्गगवेधुकश्यामाकादींस्ततोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य शुद्धय- शुद्धथोरत्यन्तविरोधात् । न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र नन्दीश्वराय उदाहार्याः । विपर्ययेणाप्यधर्मो धस बाधते । ततश्चाशुद्धि- परिणाम इति । तत्रापि नहुषाजगराय उदाहार्याः ॥ ३ ॥ । यदा तु योगी बहून्कायान्निर्मिमीते तदा किमेकमनस्कास्ते भवन्त्य- थानेकमनस्का इति- निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥ अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति । ततः सचित्तानि भवन्तीति ॥ ४ ॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥ तेषामपि प्रकृतिकार्यत्वात् । न च कार्यं कारणं प्रयोजयति । तस्य तदधी- नोत्पत्तितया कारणपरतन्त्रत्वात् । स्वातन्त्रस्य च प्रयोजकत्वात् । न खलु कुला- लमन्तरेण मुद्दण्डचक्रसलिलादय उत्पित्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते । किं तु स्वतन्त्रेण कुलालेन । न च पुरुषार्थोऽपि प्रवर्तकः । किं तु तदुद्देशेनेश्वरः । उद्देशतामात्रेण पुरुषार्थः प्रवर्तक इत्युच्यते । उत्पित्सोस्त्वस्य पुरुषार्थस्याव्यक्त- स्य स्थितिकारणत्वं युक्तम् । न चैतावता धर्मादीनामनिमित्तता । प्रतिबन्धापन- यनमात्रेण क्षेत्रिकवदुपपत्तेः । ईश्वरस्यापि धर्माधिष्ठानार्थ प्रतिबन्धापनय एव व्यापारी वेदितव्यः । तदेतन्निगदव्याख्यातेन भाष्येणोक्तम् ॥ ३ ॥ प्रकृत्यापूरेण सिद्धीः समर्थ्य सिद्धिविनिर्मितनानाकायवर्तिचित्तैकत्वनानात्वे विचारयति—यदा त्विति । तत्र नानामनस्त्वे कायानां प्रतिचित्तमभिप्राय- भेदादेकाभिप्रायानुरोधश्च परस्परप्रतिसंधानं च न स्यातां पुरुषान्तरवत् । तस्मा- देकमेव चित्तं प्रदीपवद्विसारितया बहूनपि निर्माणकायान्व्याप्नोतीति प्राप्त आह- निर्माणचित्तान्यस्मितामात्रात् । यद्यावज्जीवच्छरीरं तत्सर्वमेकैकासाधारण- चित्तान्वितं दृष्टम् । तद्यथा चैत्रमैत्रादिशरीरम् । तथा च निर्माणकाया इति सिद्धं तेषामपि प्रातिस्विकं मन इत्यभिप्रायेणाह–अस्मितामात्रमिति ॥ ४ ॥ यदुक्तमनेकचित्तत्वे एकाभिप्रायानुरोधश्च प्रतिसंधानं च न स्यातामिति तत्रो- सूत्रम् प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । अभविष्यदेष दोषो यदि चित्तमेकं नानाकायवर्ति मनोनायकं न निरमास्यत, तन्नि- • र्माणे त्वदोषः । न चैकं गृहीत्वा कृतं, प्रांतिस्विकैर्मनोभिः कृतं वा नायकनि- त्तरं