पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ पा. ३सू. ४७] पातञ्जलयोगसूत्रम् करोति । कस्मात् ? अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य तथाभूतेषु सङ्कल्पादिति । एतान्यष्टावैश्वर्याणि । कायसंपद्धक्ष्यमाणा । तद्धर्मानभिघातच, पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियाम्, शिलामप्यनुविशतीति, नापः स्निग्धाः क्लेदयन्ति, नाग्निरुष्णो दहति, न वायुः प्रणामी वहति । अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः, सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥ रूपलावण्य बलवज्र संहननत्वानि कायसंपत् ॥ ४६ ।। दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ।। ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥ सामान्यविशेषात्मा शब्दादिर्ग्राह्यः । तेष्विन्द्रियाणां वृत्तिर्ग्रहणम् । न च तत्सामान्यमात्रग्रहणाकारम् । कथमनालोचितः स विषयविशेष इन्द्रियेण यतीति । स्यादेतत्—यथा शक्तिविपर्यासं करोत्येवं पदार्थविपर्यासमपि कस्मान्न करोति १ तथा च चन्द्रमसमादित्यं कुर्यात्कुहूं च सिनीवालीमित्यत आह— न च शक्तोऽपीति । न खल्वेते यत्रकामावसायिनस्तत्रभवतः परमेश्वरस्याशा- मतिक्रमित मुत्सहन्ते । शक्तयस्तु पदार्थानां जाति देश कालावस्थाभे देनानियतस्व- भावा इति युज्यते तासु तदिच्छानुविधानमिति । एतान्यष्टावैश्वर्याणि । तद्धर्मानभिघात इति । अणिमादिप्रादुर्भाव इत्यनेनैव तद्धर्मान भिघात- सिद्धौ पुनरुपादानं कायसिद्धिव देतत्सूत्रोपबद्ध सकल विषयसंयम फलवत्त्वज्ञापनाय । सुगममन्यत् ॥ ४५ ॥ कायसंपदमाह- रूपलावण्यवलवज्रसंहननत्वानि कायसंपत्। वज्रस्येव संहननमवयवव्यूहो दृढो निबिडो यस्य स तथोक्तः ॥ ४६ ॥ जितभूतस्य योगिन इन्द्रियजयोपायमाह - ग्रहणस्वरूपास्मितान्वयार्थव- स्वसंयमादिन्द्रियजयः । ग्रहणं च स्वरूपं चास्मिता चान्वयश्चार्थवत्त्वं च तेषु संयमस्तस्मादित्यर्थः । गृहीतिर्ग्रहणम्, तच्च ग्राह्याधीननिरूपणमिति ग्राह्यं दर्शयति—सामान्यविशेषात्मेति । ग्राह्यमुक्त्वा ग्रहणमाह - तेष्विति । वृत्ति- रालोचनं विषयाकारा परिणतिरिति यावत् । ये त्वाहुः - सामान्यमात्रगोचरे- न्द्रियवृत्तिरित्ति तान्प्रत्याहन चेति । गृह्यत इति ग्रहणम् । न सामान्यमात्र- अन्यथान्धबघिराद्यभा- गोचरं ग्रहणम्। बाह्येन्द्रियतन्त्रं हि मनो बाह्ये प्रवर्तते, वप्रसङ्गात् । तदिह यदि न विशेषविषयमिन्द्रियं तेनासावनालोचितो विशेष इति कथं मनसानुव्यवसीयेत । तस्मात्सामान्यविशेषविषयमिन्द्रियालोचन मिति ।