पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुक्तव्यासमाष्यसमेतम् [पा. सु. ५ अथैषां पञ्चमं रूपमर्थवस्त्रम्, भोगापवर्गार्थता गुणेष्वन्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु पञ्चसु पञ्च- रूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र प भूतस्वरूपाणि जित्वा भूतजयी भवति । तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥ १४५ न्भवति। प्राप्ति- ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥ ४५ ॥ तत्राणिमा भवत्यणुः । लघिमा लघुर्भवति। महिमा रङ्गुल्यम्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यमिच्छानभिघातः, भूमावुन्म- ज्जति निमज्जति यथोदके । वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम् । ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे । यत्र कामावसायित्वं सत्यसङ्कल्पता यथा सङ्कल्पस्तथा भूतप्रकृतीनामवस्थानम् । न च शक्तोऽपि पदार्थविपर्यासं अथैषां पञ्चमं रूपमर्थवत्त्वं विवृणोति-भोगेति । नन्वेवमपि सन्तु गुणा अर्थ- वन्तः । तत्कार्याणां तु कुतोऽर्थवत्त्वमित्यत आह - गुणा इति। भौतिका गोघटा दयः । तदेवं संयमविषयमुक्त्वा संयमं तत्फलं चाइ- -तेष्विति । भूतप्रकृतयो - भूतस्वभावाः ॥ ४४ ॥ संकल्पानुविधाने भूतानां किं योगिनः सिध्यतीत्यत आह -- -ततोऽणिमादि- प्रादुर्भाव: कायसंपत्तद्धर्मानभिघातश्च । स्थूलसंयमजयाच्चततः सिद्धयो भवन्तीत्याह—तत्राणिमा महानपि भवत्यणुः । लघिमा महानपि लघुर्भूत्वेषी- कतुल इवाकाशे विहरति । महिमाल्पोऽपि ग्रामनगगगनपरिमाणो भवति । प्राप्तिः सर्वे भावाः संनिहिता भवन्ति योगिनः तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रसमम् । स्वरूपसंयमविजयात्सिद्धिमाह- प्राकाम्यमिच्छानभिघातः । नास्य रूपं भूतस्वरूपैर्मूर्त्यादिभिरभिहन्यते । भूमाबुन्मजति निमज्जति च यथोदके । सूक्ष्म विषय संयम जयात्सिद्धिमाह - वशिस्त्रम् इति । भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि । तेषु वशी स्वतन्त्रो भवति। तेषां त्ववश्यस्तत्कारणतन्मात्र- पृथिव्यादिपरमाणुवशीकारात्तत्कार्यवशीकारः । तेन यानि यथावस्थापयति तानि तथावतिष्ठन्त इत्यर्थः । अन्वयविषयसंयमजयात्सिद्धिमाह - ईशितृत्वम् इति । तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन् यः प्रभव उत्पादो यश्चाप्ययो विनाशो यश्च व्यूहो यथावदवस्थापनं तेषामीष्टे । अर्थवत्त्वसंयमात्सिद्धिमाइ-यन्त्र कामावसायित्वं सत्यसङ्कल्पता । विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया सङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पते । विषमध्यमृतकार्ये सङ्कल्प्य भोजयजीव- - १० यो० सू० 23