पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटी कायुत व्यासभाष्यसमेतम् [ पा. ३. सू. ४८ मनसा वानुव्यवसीयेतेति।स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्य- विशेषयोरयुतसिद्धात्रयवभेदानुगतः समूहो द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपम स्मितालक्षणोऽहंकारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थ रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येपामिन्द्रियाणि साहंकाराणि परिणामः । पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थत्वमिति । पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा पञ्चरूपजयादू- इन्द्रियजयः प्रादुर्भवति योगिनः ।। ४७ ।। ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥ कायस्यानुत्तमो गतिलाभो मनोजवित्वम् । विदेहानामिन्द्रियाणामभि- प्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानजय इति । एतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते । एताश्च करण- पञ्चक स्वरूप जयादधिगम्यन्ते ।। ४८ ॥ तदेतद्ग्रहणमिन्द्रियाणां प्रथमं रूपम् । द्वितीयं रूपमाह- स्वरूपं पुनरिति । अहङ्कारो हि सत्त्वभागेनात्मीयेनेन्द्रियाण्यजीजनत् । अतो यत्तत्र करणत्वं सामान्यं यच्च नियतरूपादिविषयत्वं विशेषस्तदुभयमपि प्रकाशात्मकमित्यर्थः । तेषां तृतीयं रूपमिति । अहङ्कारो हीन्द्रियाणां कारणमिति यत्रेन्द्रियाणि तत्र तेन भवितव्यमिति सर्वेन्द्रियसाधारण्यात्सामान्यमिन्द्रियाणामित्यर्थः । चतुर्थं रूपमिति । गुणानां हि द्वैरूप्यं व्यवसेयात्मकत्वं व्यवसायात्मकत्वं च। तत्र व्यवसेयात्मकतां ग्राह्यतामास्थाय पञ्च तन्मात्राणि भूतभौतिकानि निर्मिमीते व्यवसायात्मकत्वं तु ग्रहणरूपमास्थाय साहङ्काराणीन्द्रियाणीत्यर्थः । शेषं सुगमम् ॥ ४७ ॥ पञ्चरूपेन्द्रियजयात्सिद्धीराह- ततो मनोजवित्वं विकरणभावः प्रधान- जयश्च । विदेहानामिन्द्रियाणां करणभावो विकरणभावः । देशः काश्मीरादिः । कालोऽतीतादिः। विषयः सूक्ष्मादिः । सान्वयेन्द्रियजयात्सर्व प्रकृतिविकारवशित्वं प्रधानजयः । ता एताः सिद्धयो मधुप्रतीका इत्युच्यन्ते योगशास्त्रनिष्णातैः । स्या देतत् — इन्द्रियजयादिन्द्रियाणि सविषयाणि वश्यानि भवन्तु । प्रधानादीनां तत्कारणानां किमायातमित्यत आइ–एताश्चेति । करणानामिन्द्रियाणां पञ्च रूपाणि ग्रहणादीनि तेषां जयात् । एतदुक्तं भवति–नेन्द्रियमात्र जयस्यैताः सिद्ध- योऽपि तु पञ्चरूपस्य । तदन्तर्गतं च प्रधानादीति ॥ ४८ ॥ त एते ज्ञानक्रियारूपैश्वर्य हेतवः संयमाः साक्षात्पारम्पर्येण च स्वसिद्धय पसं-