पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २. सु. ५५ ] किं च- धारणासु च योग्यता मनसः ॥ ५३ ॥ प्राणायामाभ्यासादेव । प्रच्छर्दनविधारणाभ्यां वा प्राणस्य (१९३४ ) इति वचनात् ।। ५३ ।। अथ कः प्रत्याहारः ? पातअळयोगसूत्रम् स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रि- याणां प्रत्याहारः ॥ ५४ ॥ स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोघे चित्त- बन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकर- राजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमान मनुनिविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥ ५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ किं च - धारणासु च योग्यता मनसः । प्राणायामो हि मनः स्थिरीकु- विधारणासु योग्यं करोति ॥ ५३ ॥ तदेवं यमादिभिः संस्कृतः संयमाय प्रत्याहारमारभते । तस्य लक्षणसूत्रमव- तारयितुं पृच्छति—अथेति । स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवे- न्द्रियाणां प्रत्याहारः। चित्तमपि हि मोहनीयरञ्जनीयकोपनीयैः शब्दादिभिर्विष यैर्न संप्रयुज्यते, तदसंप्रयोगाच्चक्षुरादीन्यपि न संप्रयुज्यन्त इति सोऽयमिन्द्रियाणां चन्तस्वरूपानुकारः । यत्पुनस्तत्त्वं चित्तमभिनिविशते न तदिन्द्रियाणां बाह्यविषयविषयाणामनुकारोऽपि । अत उक्तमनुकार इवेति । स्वविषयासंप्रयोगस्य साधारणस्य धर्मस्य चित्तानुकारनिमित्तत्त्वं सप्तम्या दर्शयति — स्वेति । अनुकार विवृणोति — चित्तनिरोध इति । द्वयोर्निरोधहेतुश्च प्रयत्नस्तुल्य इति सादृश्यम् । अत्रैव दृष्टान्तमाह—यथा मधुकरराजमिति । दान्तिके योजयति—तथेति । अत्रापि विष्णुपुराणवाक्यम्- शब्दादिष्वनुषक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ( ६|७|४३) तस्य प्रयोजनं तत्रैव दर्शितम्- वश्यता परमा तेन जायते निश्चलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ( ६/७/४४) इति ॥ ५४॥ अस्यानुवादकं सुत्रम् – ततः परमा वश्यतेन्द्रियाणाम् । ननु सन्ति