पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पपिकृतटीकायुतण्यास भाष्यसमेतम् [पा. २ सूं. ५५ शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिर्न्याय्या | शब्दादिसंप्रयोगः स्वेच्छये- त्यन्ये । रागद्वे पाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्रथादप्रतिपत्तिरेवेति जैगीषव्यः । ततश्च परमा त्वियं वश्यता यश्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृत- मुपायान्तरमपेक्षन्ते योगिन इति ।। ५५ ।। इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्वयासभाष्ये द्वितीयः साधनपादः ।। २ ।। -००५०९००- १०३ किमन्या अपरमा इन्द्रियाणां वश्यता या अपेक्ष्य परमेयमुच्यते । अद्धा ता दर्शयति — शब्दादिष्विति । एतदेव विवृणोति-सक्ती रागो व्यसनम् । कया व्युपत्त्या ! व्यस्यति क्षिपति निरस्यत्येनं श्रेयस इति । तदभावोऽव्यसनं वश्यता । अपरामपि वश्यतामाह -अविरुद्धेति । श्रुत्याद्यविरुद्धशब्दादिसेवनं तद्विरुद्धे ध्वप्रवृत्तिः। सैव न्याय्या, न्यायादनपेता यतः । अपरामपि वश्यतामाह-शब्दादि- संप्रयोग इति । शब्दादिष्विन्द्रियाणां संप्रयोगः स्वेच्छया भोग्येषु स खल्वयं स्वत- न्त्रो न भोग्यतन्त्र इत्यर्थः । अपरामपि वश्यतामाह - रागद्वेषाभावे सुख- दुःखशून्यं माध्यस्थ्येन शब्दादिज्ञानमित्येके । सूत्रकाराभिमतां वश्यतां परमर्षि- संमतामाह—चित्तस्यैकाग्रथात्सहेन्द्रियैरप्रवृत्तिरेव शब्दादिष्विति जैगीषव्यः । ह-परमा विति। तुशब्दो वश्यतान्तरेभ्यो विशिनष्टि । वश्यतान्तराणि हि विषयाशीविषसंप्रयोगशालितया क्लेशविषसंपर्कशङ्कां नापक्रा- मन्ति। न हि विषविद्यावित्प्रकृष्टोऽपि वशीकृतभुजंगमो भुजंगममङ्के निधाय स्वपिति विश्रब्धः । इयं तु वश्यता विदूरीकृतनिखिलविषयव्यतिषङ्गा निराशङ्कतया परमेत्युच्यते । नेतरेन्द्रियजयवदिति । यथा यतमानसंज्ञायामे केन्द्रिजयेऽपी- न्द्रियान्तरजयाय प्रयत्नान्तरमपेक्षन्ते, न चैवं चित्तनिरोधे बाह्येन्द्रियनिरोधाय प्रयत्नान्तरापेक्षेत्यर्थः ॥ ५५ ॥ अस्याः परमत क्रियायोगं जगौ क्लेशान्विपाकान्कर्मणामिह । तद्दुःखत्वं तथा व्यूहान्पादे योगस्य पञ्चकम् ॥ इति ॥ इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्ययां तत्त्ववैशारद्यां द्वितीयः साधनपादः ॥ २ ॥