पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतण्यांसभाष्यसमेतम् [ पा. २ सु. ५२ भावञ्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकदारब्ध एव, देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोर्विष- यावधारणात्क्रमेण भूमिजयादुभयातेपपूर्वको गत्यभावञ्चतुर्थः प्राणायाम इत्ययं विशेषः ॥ ५१ ।। ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म । यत्तदाचक्षते–महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवा- कार्ये नियुक्त इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामा- भ्यासाद् दुर्बलं भवति प्रतिक्षणं च क्षीयते । तथा चोक्तम्-तपो न पर प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिञ्च ज्ञानस्येति ।। ५२ ।। जायते । किं त्वभ्यस्यमानस्तां तामवस्थामापन्नस्तत्तदवस्थाविजयानुक्रमेण भव तीत्याह—भूमिजयादिति। ननूभयोर्गत्यभावः स्तम्भवृत्तावप्यस्तीति कोऽस्मा- दस्य विशेष इत्यत आह—तृतीय इति । अनालोचनपूर्वः सकृत्प्रयत्ननिर्व- तितस्तृतीयः । चतुर्थस्त्वालोचनपूर्वो बहुप्रयत्ननिर्वर्तनीय इति विशेषः । तयोः पूरकरेचकयोर्विषयोऽनालोचितोऽयं तु देशकालसंख्याभिरालोचित इत्यर्थः ॥५१॥ प्राणायामस्थावान्तरप्रयोजनमाह - ततः क्षीयते प्रकाशावरणम् । आब्रि- यतेऽनेन बुद्धिसत्त्वप्रकाश इत्यावरणं क्लेशः पाप्मा च । व्याचष्टे- प्राणायामा- निति । ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्त्वप्रकाशः । विवेकस्य ज्ञानं विवेकज्ञा- नम् । विवेकज्ञानमावृणोतीति विवेकज्ञानावरणीयम् । भव्यगेयप्रवचनीयादीनां (अष्टाध्यायी ३।४।६८) कर्तरि निपातनस्य प्रदर्शनार्थत्वात्कोपनीयरञ्जनीयवदत्रापि कर्तरि कृत्यप्रत्ययः । कर्मशब्देन तज्जन्यमपुण्यं तत्कारणं च क्लेशं लक्षयति । अत्रैवागमिनामनुमतिमाह-यत्तदाचक्षत इति । महामोहो रागः । तदविनि- र्भागवर्तिन्यविद्यापि तद्ग्रहणेन गृह्यते । अकार्यमधर्मः । ननु प्राणायाम एव चेत्पाप्मानं क्षिणोति कृतं तर्हि तपसेत्यत आइ-दुर्बलं भवतीति । न तु सर्वथा क्षीयते । अतस्तत्प्रक्षयाय तपोऽपेक्ष्यत इति । अत्राप्यागमिनामनुमतिमाह -तथा चोक्तमिति । मनुरप्याह - प्राणायामैर्द हेद्दोषान् ( ६।७२) इति । प्राणायामस्य योगाङ्गता विष्णुपुराण उक्ता-- प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यः । प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥ परस्परेणाभिभवं प्राणापानौ यदानिलो । कुरुतस्तद्विधानेन तृतीयं संयमात्तयोः ।। ( ६ |७|४०-४१) इति ॥५२॥