पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतकृतटीकायु तव्यासभाष्यसमेतम् [.पा. २ सू. ३६ ते खल्त्रमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्, दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्ता- वत्प्रथमं वध्यस्य वीर्यमाक्षिपति, ततश्च शस्त्रादिनिपातेन दुःखयति, ततो जीवितादपि मोचयति । ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्य भवति, दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोप- णात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतबिंपाकवेदनीयत्त्रात्कथदेवोच्छ्रसिति । यदि च कथञ्चित्पुण्यावा- पगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति । एवमनृतादिष्वपि योज्यं यथासंभवम् । एवं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन् नवितर्केषु मनः प्रणिधीत ॥ ३४ ॥ प्रतिपक्षभावनाहेतोर्हेया वितर्का यदास्य स्युरप्रसवधर्माणस्तदा तत्कृत- मैश्वर्यं योगिनः सिद्धिसूचकं भवति । तद्यथा- अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५ ॥ सर्वप्राणिनां भवति ।। ३५ ।। सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६॥ धार्मिको भूया इति भवति धार्मिकः । स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति । अमोघास्य वाग्भवति ।। ३६ ।। दुःखाज्ञानानन्तफलत्वमेव हि प्रतिपक्षभावनं तद्वशादेभ्यो निवृत्तेरिति तदेव प्रतिपक्षभावनं स्फोरयति – वध्यस्य । पश्चादेवीर्यं प्रयत्नं कायव्यापारहेतुं प्रथममाक्षिपति यूपनियोजनेन । तेन हि पशोरप्रागल्भ्यं भवति । शेषमति- स्फुटम् ॥ ३४ ॥ उक्ता यमनियमाः । तदपवादकानां च वितर्काणां प्रतिपक्षभावनातो हानि- रुक्ता। संप्रत्यप्रत्यूहं यमनियमाभ्यासात् तत्तत् सिद्धिपरिज्ञानसूचकानि चिह्नान्यु- पन्यस्यति यत्परिंज्ञानाद्योगी तत्र तत्र कृतकृत्यः कर्तव्येषु प्रवर्तत इत्याह- यदेति । अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः । शाश्वतिकविरोधा अप्यश्वम- हिषमूषकमार्जाराहिनकुलादयोऽपि भगवतः प्रतिष्ठिताहिंसस्य संनिधानात्तच्चित्ता- नुकारिणो वैरं परित्यजन्तीति ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्। क्रियासाध्यौ धर्माधर्मौ क्रिया । तत्फलं च स्वर्गनरकादि । ते एवाश्रयतीत्याश्रयः । तस्य भावस्तत्त्वम् । तदस्य भगवतो वाचा भवतीति । क्रियाश्रयत्वमाह-धार्मिक इति । फलाश्रयत्वमाइ- स्वर्गमिति । अमोघाऽप्रतिह्ता ॥ ३६॥