पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २ सू. ३४ ] पातञ्जलयोगसूत्रम् एतेषां यमनियमानाम्- ९४ वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिण- मनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति । एवमुन्मार्गप्रवणवितर्क- ज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत् -'घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः। स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् । यथा श्वा वान्तावलेही तथा व्यक्तस्य पुनराददान इत्येवमादि सूत्रान्तरेष्वपि योज्यम् ।। ३॥ वितर्का हिसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखा- ज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥ तत्र हिंसा तावत्- कृता कारितानुमोदितेति त्रिधा । एकैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन, क्रोधेनापकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति । एवं सप्तविंशतिर्भेदा भवन्ति हिंसायाः । मृदुमध्याधिमात्राः पुनस्त्रिविधाः-मृदुमृदुर्मध्यमृदु- स्तीत्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीत्रमध्य इति । तथा मृदुतीब्रो मध्यतीव्रोऽधिमात्रतीत्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्निय मविकल्पसमुच्चयभेदादसंख्येया प्राणभृद्भेदस्यापरिसंख्येयत्वादिति । एव- मनृतादिष्वपि योज्यम् । 'श्रेयांसि बहुविघ्नानि' इत्येषामपवादसंभवे तत्प्रतीकारोपदेशपरं सूत्रमव- तारयति — एतेषां यमनियमानामिति । सूत्रं – वितर्कबाधने प्रतिपक्षभावनम् । भाष्ये नास्ति तिरोहितमिव किञ्चन ॥ ३३ ॥ तत्र वितर्काणां स्वरूपप्रकारकारणधर्मफल मेदान्प्रतिपक्षभावनाविषयान्प्रति- पक्षभावनास्वरूपाभिधित्सया सूत्रेणाह-वितर्का हिंसादयः कृतकारिता- नुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानान- न्तफला इति प्रतिपक्षभावनम् । व्याचष्टे – तत्र हिंसेति । प्राणभृ- द्भेदस्यापरिसंख्येयत्वान्नियम विकल्पसमुच्चयाः संभविनो हिंसादिषु । तत्रा- धर्मतस्तमः समुद्र के सति चतुर्विधविपर्ययलक्षणस्याज्ञानस्याप्युदय इत्यज्ञानफल- त्वमप्येतेषामिति ।