पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा २ सू. ४०.] पातञ्जलयोगसूत्रम् अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥ सर्वदिक्स्थान्यस्योपतिष्ठ॒न्ते रत्नानि ॥ ३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥ यस्य लाभादप्रतिघान्गुणानुत्कर्षयति, सिद्धञ्च विनेयेषु ज्ञातमाधातुं समर्थो भवतीति ॥ ३८ ॥ अपरिग्रहस्थैर्य जन्मकथन्तासंबोधः ॥ ३९ ॥ अस्य भवति । कोऽहमासं, कथमहमासं, किंस्विदिदं, कथंस्त्रिदिदं, के वा भविष्यासः, कथं वा भविष्याम इत्येवमस्य पूर्वान्तपरान्तमध्ये वात्मभाव जिज्ञासा स्वरूपेणोपावर्तते । एता यमस्थैर्ये सिद्धयः ।। ३१ ।। । नियमेषु वक्ष्यामः- शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ स्वाङ्ग जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किं च परैरसंसर्गः कायस्वभावावलोकी स्वमपि कार्य जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्त- अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । सुबोधम् ॥ ३७ ।। ब्रह्मवर्यप्रतिष्ठायां वीर्यलाभः । वीर्यं सामर्थ्य यस्य लाभादप्रतिघानप्रती- घातान्गुणानणि मादीनुत्कर्षयत्युपचिनोति । सिद्धश्च तारादिभिरष्टाभिः सिद्धि- भिरूहाद्यपरनामभिरुपेतो विनेयेषु शिष्येषु ज्ञानं योगतदङ्गविषयमाधातुं समर्थों भवतीति । ३८ ॥ । अपरिग्रहस्थैर्ये जन्मकथन्तासंबोधः । निकाया विशिष्टै देहेन्द्रियादिभिः संबन्धो जन्म। तस्य कथन्ता किप्रकारता । तस्याः संबोधः साक्षात्कारः। सप्रकारा- तीन्द्रियशान्तोदिताव्यपदेश्यजन्मपरिज्ञानमिति यावत् । अतीतं जिज्ञासते-- कोऽहमासमिति । तस्यैव प्रकारभेदमुत्गदे स्थितौ च जिज्ञासते–कथमहमा- समिति। वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते- किंस्विदिति । शरीरं भौ- तिकं किं भूतानां समूहमात्रमाहोस्वित्तेभ्योऽन्यदिति । अत्रापि कथंस्विदित्यनु पञ्जनीयम् । क्वचित्तु पठ्यत एव । अनागतं जिज्ञासते–के वा भविष्याम इति । अत्रापि कथंस्विदित्यनुषङ्गः । एवमस्येति । पूर्वान्तोऽतीतः कालः परा- न्तो भविष्यन्मध्यो वर्तमानस्तेष्वात्मनो भावः शरीरादिसम्बन्धस्तस्मिञ् जिज्ञासा ततश्च ज्ञानम् । यो हि यदिच्छति स तत्करोतीति न्यायात् ॥ ३६॥ शौचात्स्याङ्गजुगुप्सा परैरसंसर्गः । अनेन बाह्यशौचसि द्विसूचकं