पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ पा. २सू. २४ ] पातञ्जलयोगसूत्रम् ७- उभयस्याप्यदर्शनं धर्म इत्येके । तत्रेदं दृश्यस्य स्त्रात्मभूतमपि पुरुष- प्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति, तथा पुरुस्थानात्मभूतमपि दृश्य प्रत्ययापेक्षं पुरुपधर्मत्वेनेव दर्शनमवभासते। ८-दर्शनज्ञानमेवादर्शनमिति केचिदभिद्धति । इत्येते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्व मेतत्सर्वपुरूणां गुणानां संयोगे साधारणविषयम् ॥२३॥ यस्तु प्रत्यक्चेतनस्य स्त्रबुद्धिसंयोगः- न हि तस्य हेतुरविद्या ॥ २४ ॥ विपर्ययज्ञानत्रासनेत्यथः । विपर्ययज्ञान वासनावासिता च न कार्यनिष्ठां पुरुषस्य इमामेवोभयाश्रयामास्थाय सप्तमं विकल्पमाह - उभयस्य च दृश्यस्य चादर्शनं दर्शनशक्तिर्धर्म इत्येके । स्यादेतत् – मृष्यामहे दृश्यस्येति, तस्य सर्वशक्त्याश्रयत्वात्, न द्रष्टुरिति पुनर्मृष्यामः । तदाधारा ज्ञानशक्तिः, तत्र ज्ञानस्यासमवायात् । अन्यथा परिणामापत्ति- रित्यत आह—तत्रेद मिति । भवतु दृश्यात्मकं, तथापि तस्त्र जडत्वेन तद्गतश- क्तिकार्य दर्शनमपि जडमिति न शक्यं तद्धर्मत्वेन विज्ञातुम, जडस्य स्वयमप्रकाश- त्वात् । अतो दृशेरात्मनः प्रत्ययं चैतन्यच्छायापत्तिमपेक्ष्य दर्शनं तद्धमत्वेन भवति विज्ञायते, विषयेण विषयिण उपलक्षणात्। नन्वेतावतापि दृश्यधर्मत्वमस्य ज्ञानस्य भवति, न तु पुरुषधर्मत्वमपीत्यत आह तथा पुरुषस्येति । सत्यं पुरुषस्था- नात्मभूतमेव तथापि दृश्यबुद्धिसत्त्वस्य यः प्रत्ययश्चैतन्यच्छायापत्तिस्तम पेक्ष्य पुरुषधर्मत्वेनेव, न तु पुरुषधर्मत्वेन । एतदुक्तं भवति–चैतन् बिम्बोद्ग्राहितया बुद्धिचैतन्ययोरमेदाद् बुद्धिधर्माश्चैतन्यधर्मा इव चकासतीति । अष्टमं विकल्पमाह–दर्शनज्ञानमेव शब्दादीनामदर्शनं न तु सत्त्वपुरुषा- न्यताया इति केचित् । यथा चक्षू रूपे प्रमाणमपि रसादावप्रमाणमुच्यते । एतदुक्तं भवति–सुखाद्या कारशब्दादिज्ञानानि स्वसिद्ध यनुगुणतया द्रष्टृदृश्यसं- योगमाक्षिपन्तीति । तदेवं विकल्प्य चतुर्थं विकल्पं स्वीकर्तुमितरेषां विकल्पानां सांख्यशास्त्रतानां सर्व पुरुषसाधारण्येन भोगवैचित्र्याभावप्रसङ्गेन दूत्रयति- इत्येते शास्त्रगता इति ॥ २३ ॥ चतुर्थं विकल्पं निर्धारयितुं सूत्रमवतारयति—यस्तु प्रत्यक्चेतनस्य स्व- बुद्धिसंयोग इति । प्रतीपमञ्चति प्राप्नोतीति प्रत्यगसाधारणस्तु संयोग एकैक- स्य पुरुषस्यैकैकया बुद्धया वैचित्र्यहेतुः । सूत्रं पठति–तस्येति। नन्वविद्या विपर्ययज्ञानम्, तस्य भोगापवर्गयोरिव स्वबुद्धिसंयोगो हेतुः । असंयुक्तायां बुद्धौ तदनुत्पत्तेः तत्कथमविद्या संयोगभेदस्य हेतुरित्यत आह–विपर्ययज्ञानवास- नेति । सर्गान्तरीयाया अविद्यायाः स्वचित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति