पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायु तव्यांसभाष्यसमेतम् [ पा. २ सू. २४ पुरुषख्यातिं बुद्धिः प्राप्नोति, साधिकारा पुनरावर्तते । सा तु पुरुषख्याति- पर्यवसाना कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणा- भावान्न पुनरावर्तते । अत्र कश्चित्लण्डकोपाख्यानेनोद्घाटयति-मुग्धया भार्ययाभिधीयते पण्डकः । आर्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाहमिति । स तामाह- मृतस्तेऽहमपत्यमुत्पादयिध्यामीति । तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा । तत्राचार्यदेशीयो वक्ति ननु बुद्धिनिवृत्तिरेव मोक्षः, अदर्शनकारणाभाबाद् बुद्धिनिवृत्तिः। तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते । तत्र चित्तनिवृत्तिरेव मोक्षः । किमर्थमस्थान वासना । तद्वासनावासितं च प्रधानं तत्तत्पुरुषसंयोगिनीं तादृशीमेव बुद्धि सु जति । एवं पूर्वपूर्वसर्गेत्रित्यनादित्वाददोषः । अत एव प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्याह — विपर्ययज्ञानेति । यदा पुरुषख्याति कार्यनिष्ठां प्राप्ता तदा विपर्ययज्ञानवासनाया बन्धकारणस्याभावान्न पुनरावर्तत इत्याह- सात्विति । अत्र कश्चिन्नास्तिकः कैवल्यं षण्डकोपाख्यानेनोपहसति । षण्डकोपाख्यान- माह – मुग्धयेति । किमर्थमित्यर्थशब्दो निमित्तमुपलक्षयति, प्रयोजनस्थापि निमित्तत्वात् । षण्डकोपाख्यानेन साम्यमापादयति--तथेदं विद्यमानं गुणपुरुषा- न्यताख्यातिज्ञानं चित्तनिवृत्तिं न करोति, परवैराग्येण ज्ञानप्रसादमात्रेण ससंस्कारं निरुद्धं विनष्टं करिष्यतीति का प्रत्याशा । यस्मिन्सत्येव यद्भवति तत्तस्य कार्यं, न तु यस्मिन्नसतीति भावः । अत्रैकदेशिमतेन परिहारमाह- अत्रेति । ईषदपरिसमाप्त आचार्य आचार्यदेशीयः । आचार्यस्तु वायुप्रोक्ते कृतलक्षण:- आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते || ( तुल० ५६।३० ) इति । भोगविवेकख्यातिरूपपरिणतबु द्ध निवृत्तिरेव मोक्षः, न तु बुद्धिस्वरूपनि वृत्तिः, सा च धर्ममेघान्तविवेकख्यातिप्रतिष्ठाया अनन्तरमेव भवति सत्यपि बुद्धिस्वरूपमात्रावस्थान इत्यर्थः । एतदेव स्फोरयति-अदर्शनस्य बन्धकारण- स्याभावाद् बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते । दर्शन- निवृत्तिस्तु परवैराग्यसाध्या, सत्यपि बुद्धिस्वरूपावस्थाने मोक्ष इति भावः । एकदेशिमतमुपन्यस्य स्वमतमाह -तत्र चित्तनिवृत्तिरेव मोक्षः । ननूक्तं दर्शने निवृत्तेऽचिराच्चित्तस्त्ररूपनिवृत्तिर्भवतीति कथं दर्शनकार्येत्यत आह -किमर्थम- स्थाने मतिविभ्रम इति । अयमभिसन्धिः– यदि दर्शनस्य साक्षाच्चित्तनिवृत्तौ कारणभावमीकुर्वीमहि तत एवभुपालभ्येमहि, कि तु विवेकदर्शन प्रकर्षकाष्ठां