पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. २ सू. २३ ५- किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः ? यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् तथा गत्यैव वर्तमानं विकार- नित्यत्वादप्रधानं स्यात् । उभयथा चास्य प्रवृत्तिः प्रधानव्यवहारं लभते, नान्यथा । कारणान्तरेष्वपि कल्पितेष्वेष समानश्चर्चः । ८३ ६-दर्शनशक्तिरेवादर्शनमित्येके; प्रधानस्यात्मख्यापनार्था प्रवृत्तिरिति श्रुतेः । सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति, सर्वकार्यकरण- समर्थ दृश्यं तदा न दृश्यत इति । सह निरुद्धा प्रधानसाम्यमागता वासनारूपेण स्वचित्तोत्पत्तिबीजम् । तेन दर्शनादन्याऽविद्यावासनैवादर्शनमुक्ता । पयुदास एव पञ्चमं विकल्पमाह - कि स्थितिसंस्कारस्य प्रधानवर्तिनः साम्यपरिणामपरम्परावाहिनः क्षये, गतिर्महदादिविकारारम्भस्तद्धेतुः संस्कारः प्रधानस्य गतिसंस्कारस्तस्याभिव्यक्तिः कार्योन्मुखत्वम् । तदुभयसंस्कार- सद्भावे मतान्तरानुमतिमाह - यत्रेदमुक्तमैकान्तिकत्वं व्यासेधद्भिः, प्रधो- यते जन्यते विकारजातमनेनेति प्रधानम् । तच्चेत्स्थित्यैव वर्तेत न कदा- चिद्गत्या ततो विकाराकरणान्न प्रधीयते तेन किञ्चिदित्यप्रधानं स्यात् । अथ गत्यैव वर्तेत न कदाचिदपि स्थित्या, तत्राह — तथा गत्यैवेति । क्वचि- त्पाठः 'स्थित्यै गत्यै' इति । तादर्थ्ये चतुर्थी, एवकारश्च द्रष्टव्यः । स्थित्यै चेन्न वर्तेत न क्वचिद्विकारो विनश्येत् । तथा च भावस्य सतो विनाशिनो नोप- त्तिरपीति विकारत्वादेव च्यवेत । एवं च न प्रधीयतेऽत्र किञ्चिदित्यप्रधानं स्यात् । तदुभयथा स्थित्या गत्या चास्य प्रवृत्तिः प्रधानव्यवहारं लभते नान्यथैकान्ताभ्युप- गमे । न केवलं प्रधाने, कारणान्तरेष्वपि परब्रह्मतन्मायापरमाण्वादिषु कल्पितेषु समानश्चच विचारः। तान्यपि हि स्थित्यैव वर्तमानानि विकाराकरणादकार- णानि स्युः, गत्यैव वर्तमानानि विकारनित्यत्वादकारणानि स्युरिति च । पर्युदास एव षष्ठं विकल्पमाह-दर्शनशक्तिरे वेति । यथा प्रजापतिव्रते नेक्षेतो- द्यन्तमादित्य मित्यनीक्षणप्रत्यासन्नः संकल्पो गृह्यत एवमिहापि दर्शननिषेषे तत्प्रत्यासन्ना तन्मूला शक्तिरुच्यते । सा च दर्शनं भोगादिलक्षणं प्रसोतुं द्रष्टारं दृश्येन योजयतीति । अत्रैव श्रुतिमाह – प्रधानस्येति । स्यादेतत् - आत्मख्यापनार्थं प्रधानं प्रवर्तत इति श्रुतिराह, न त्वात्मदर्शनशक्तिः प्रवर्तत इत्यत आह – सर्वबोध्यबोधसमर्थ इति । प्राक्प्रवृत्तेः प्रधानस्य नात्म- ख्यापनमात्रं प्रवृत्तौ प्रयोजकम्, असामर्थ्यं तदयोगात् । तस्मात्सामथ्यं प्रवृत्तेः प्रयोजकमिति श्रुत्यार्थादुक्तमित्यर्थः । दर्शनशक्तिः प्रधानाश्रयेत्यङ्गीकृत्य षष्ठः कल्पः ।