पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २ सू. २३ ] पातञ्जलयोगसूत्रम् लब्धिर्या स भोगः, या तु द्रष्टुः स्त्ररूपोपलब्धिः सोऽपवर्गः । दर्शनकार्याव सानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्तम् । नात्र दर्शनं मोक्षकारणम्, अदर्शनाभावादेव बन्धाभावः स मोक्ष इति । दर्शनस्य भावे बन्धकारणस्या- दर्शनस्य नाश इत्यतो दर्शनज्ञानं कैवल्यकारणमुक्तम् । १ – किं चेदमदर्शनं नाम ? किं गुणानामधिकारः ? ८२ २ – आहोरिषद् हशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्या- नुत्पादः स्वस्मिन्दृश्ये विद्यमाने दर्शनाभावः ? ३ – किमर्थवत्ता गुणानाम् ? ४–अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम् ? रूपोपलब्धिहेतुः । तदेतद्भाष्यमवद्योतयति-पुरुषः इति । पुरुषः स्वामी योग्यता- मात्रेण दृश्येन स्वेन योग्यतयैव दर्शनार्थं संयुक्तः। शेषं सुगमम् । स्यादेतत् द्रष्टुः स्वरूपोपलव्धिरपवृज्यते ऽनेनेत्यपवर्ग उक्तः । न च मोक्षः साधनवान् । तथा सत्ययं मोक्षत्वादेव च्यवेतेत्यत आह-दर्शनकार्यावसान इति । दर्शनकार्यावसानो बुद्धि- विशेषेण सह पुरुषविशेषस्य संयोग इति दर्शनं वियोगकारणमुक्तम् । कथं पुनदर्शन- कार्यावसानत्वं संयोगस्येत्यत आह-दर्शन मिति । ततः किमित्यत आह -अदर्शन- मिति। अदर्शनमविद्या संयोगनिमित्तमित्युक्तम् । उक्तमर्थ स्पष्टयति—नात्रेति । ननु दर्शनमदर्शनं विरोधि विनिवर्तयतु, बन्धस्य कुतो निवृत्तिरित्यत आह— दर्शनस्येति । बुद्धयादिविविक्तस्यात्मनः स्वरूपावस्थानं मोक्ष उक्तो, न तस्य साधनं दर्शनमपि त्वदर्शननिवृत्तिरित्यर्थः । असाधारणं संयोगहेतुमदर्शनविशेषं ग्रहीतुमदर्शनमात्रं विकल्पयति - किं चेदमिति । पर्युदासं गृहीत्वाह - किं गुणानामधिकार इति । अधिकारः कार्या- रम्भणसामर्थ्यम् । ततो हि संयोगः संसारहेतुरुपजायते । प्रसज्यप्रतिषेधं गृहीत्वा द्वितीयं विकल्पमाह-आहोस्विदिति । दर्शितो विषयः शब्दादिः सत्त्वपुरुषान्यता च येन चित्तेन तस्य तद्विषयस्यानुत्पाद: । एतदेव स्फोरयति — स्वस्मिन्दृश्ये शब्दादौ सत्त्वपुरुषान्यतायां चेति । तावदेव प्रधानं विचेष्टते न यावद् द्विविधं दर्शनमभिनिर्वर्तयति । निष्पादितो- भयदर्शनं तु विनिवर्तत इति । पर्युदास एव तृतीयं विकल्पमाह - किमर्थवत्ता गुणानाम् इति । सत्कार्य- वादसिद्धौ हि भाविनावपि भोगापवर्गार्थावव्यपदेश्यतया स्त इत्यर्थः । पर्युदास एव चतुर्थं विकल्पमाह - अथाविद्येति । प्रतिसर्गकाले स्वचित्तेन