पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [.पा. १ सू. ४१ अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति ? तदुच्यते- of उमार उपसमिता एक इन्द्रे शाह मात विषय उश्चम क्षीणवृत्तेर्भिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥ क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः । अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपा- कारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपा कारेण निर्भासते। तथा भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरू- पाभासं भवति । तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति । तथा ग्रहणेष्वपीन्द्रियेषु द्रष्टव्यम् । ग्रहणालम्वनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते। तथा ग्रहीतृपुरुषालम्वनोपरक्तं ग्रहीतृपुरुष- स्वभाव स्वच्छस्थ तदेवं चित्तस्थितेरुपाया दर्शिताः । लब्धस्थितिकस्य चित्तस्य वशीकारोऽपि दर्शितः । संप्रति लब्धस्थितिकस्य चेतसः किंविषयः किरूपश्च संप्रज्ञातो भव- तीति पृच्छतिं—–—अथेति । अत्रोत्तरसूत्रमवतारयति-तदुच्यत इति । सूत्रं पठति — क्षीणवृत्तेरित्यादि समापत्त्यन्तम् । तद्वयाचष्टे –क्षीणेति । अभ्यासवैराग्याभ्यां क्षीणराजसतामसप्रमाणादिवृत्तेश्चित्तस्य । तस्य व्याख्यानं प्रत्यस्तमितप्रत्ययस्येति । तदनेन चित्तसत्त्वस्य रजस्तमोभ्यामभिभव उक्तः । दृष्टान्तं स्पष्टयति- यथेति । उपाश्रय उपाधि- र्जपाकुसुमादिः । उपरक्तस्तच्छायापन्नः । उपाश्रयस्य यदात्मीयं रूपं लोहितनी- लादि तदेवाकारस्तेन लक्षितो निर्भासते। दान्तिके योजयति —तदा ग्राह्येति । ग्राह्यं च तदालम्बनं च तेनोपरक्तं तदनुविद्धम् | तंदनेन ग्रहीतृग्रहणाभ्यां व्यव च्छिनत्ति । आत्मीयमन्तःकरणरूपमविधाय ग्राह्मसमापन्नं ग्राह्यतामिव प्राप्त मिति यावत् । अतो ग्राह्यस्वरूपाकारेण निर्भासते । ग्राह्योपरागमेव सूक्ष्म- स्थूलताभ्यां विभजते --भूतसूक्ष्मेति । विश्वभेदश्चेतनाचेतनस्वभावो गवादि र्घटादिश्च द्रष्टव्यः । तदनेने वितर्कविचारानुगतौ समाधी दर्शितौ । तथा ग्रहणेष्वपीन्द्रियेष्विति । गृह्यन्त एभिरर्था इति ग्रहणानीन्द्रियाणि । एतदेव स्पष्टयति — ग्रहणालम्बनेति । ग्रहणं चालम्बनं च तदिति ग्रहणाल- म्बनम् । तेनोपरक्तमनुविद्धमात्मीयमन्तःकरण रूपमपिधाय ग्रहणमिव बहिष्करण- मिवापन्न मिति । तदनेनानन्दानुगतमुक्त्वाऽस्मितानुगतमाह -तथा ग्रही- नृपुरुषेति । अस्मितास्पदं हि ग्रहीता पुरुष इति भावः । पुरुषत्वाविशेषादने-