पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. Ju पा १ सू. ४२ ] पातञ्जलयोगसूत्रम् समापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते। तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुपसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति । तदेवमभिजात- मणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतञ्जनता– तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते । ४१ ।। तत्र शब्दार्थज्ञानविकल्पै: संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभ- क्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चाऽन्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्युच्यते ॥ ४२ ॥ नैव मुक्तोऽपि पुरुषः शुकप्रह्लादादिः समाधिविषयतया संग्रहीतव्य इत्याह- तथा मुक्तेति । उपसंहरस्तत्स्थत द जनतापदं व्याचष्टे--तदेवमिति । तेषु ग्रहीतृग्रहणग्राह्येषु स्थितस्य धारितस्य ध्यानपरिपाकवशादपहतरजस्तमोमलस्य चित्तसत्त्वस्य या तदञ्जनता तदाकारता सा समापत्तिः संप्रज्ञातलक्षणो योग उच्यते । तत्र च ग्रहीतृग्रहणग्राह्येष्विति सौत्रः पाठक्रमोऽर्थक्रमविरोधा नादर्तव्यः । एवं भाष्येऽपि प्रथमं भूतसूक्ष्मोपन्यासो नादरणीय इति सर्व रमणीयम् ॥ ४१ ॥ सामान्यतः समापत्तिरुक्ता | सेयमवान्तरभेदाच्चतुर्विधा भवति । तद्यथा सवितर्का निर्वितर्का सविचारा निर्विचारा चेति । तत्र सवितर्कायाः समापत्तेल- क्षणमाह — तत्रेत्यादि समापत्यन्तं सूत्रम् । तत्र तासु समापत्तिषु मध्ये सवितर्का समापत्तिः प्रतिपत्तव्या। कोहशी ? शब्दश्चार्यश्च ज्ञानं च तेषां विकल्पाः । वस्तुतो भिन्नानामपि शब्दादीनामितरेतराध्यासाद्विकल्पोऽप्येकस्मिन्भेदमादर्शयति भिन्नेषु चाभेदम्, तेन शब्दार्थज्ञानविकल्पैः संकीर्णा व्यमित्यर्थः । तद्यथा गौरिति शब्द इति । गौरित्युपात्तयोरर्थज्ञानयोः शब्दाभेदविकल्पो दर्शितः । गौरित्यर्थ इति । गौरित्युपात्तयोः शब्दज्ञानयोरर्थाभेदविकल्पो दर्शितः। गौरिति ज्ञानमिति । गौरित्त्युपात्तयोः शब्दार्थयोर्ज्ञानाभेदविकल्पः । तदेवमविभागेन विभक्तानामपि शब्दार्थज्ञानानां ग्रहणं लोके द्रष्टव्यम् । यद्यविभागेन ग्रहणं कुत- स्तर्हि विभाग इत्यत आह - विभज्यमानाश्चेति । विभज्यमानाश्चान्वयव्यतिरे- काभ्यां परीक्षकैर न्ये शब्दधर्मा ध्वनिपरिणाममात्रस्य शब्दस्योदात्तादयो धर्माः, अन्येऽर्थस्य जडत्वमूर्तत्वादयः, अन्ये प्रकाशमूर्तिविरहादयो ज्ञानस्य धर्मा इति । तस्मादेतेषां विभक्तः पन्थाः स्वरूपभेदोन्नयनमार्गः । तत्र विकल्पिते गवाद्यर्थे समापन्नस्येति । तदनेन योगिनोऽपरं प्रत्येक्षमुक्तम् । शेषं सुगमम् ॥ ४२ ॥ - -