पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १सू. ४० ] पातञ्जलयोगसूत्रम् वीतरागविषयं वा चित्तम् ॥ ३७ ॥ वीतरागचित्तालम्बनोपरकं वा योगिनश्चित्तं स्थितिपदं लभत इति ||३७|| स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥ स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥ यथाभिमतध्यानाद्वा ॥ ३९ ॥ यदेवाभिमतं तदेव ध्यायेत् । तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ।। ३९ ।। परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निवि- शमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । एवं तामुभयीं कोटिमनु- धावतो योऽस्याप्रतीघातः स परो वशीकारः । तद्वशीकारात्परिपूर्ण योगिन- श्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ।। ४० ।। वीतरागविषयं वा चित्तम् । वीतरागाः कृष्णद्वैपायनप्रभृतयस्तेषां चित्तं तदेवालम्बनं तेनोपरक्तमिति ॥ ३७ ॥ मनोहरां स्वप्ननिद्राज्ञानालम्बनं वा । यदा खल्वयं स्वप्ने विवितवनसंनिवेशवर्ति- नीमुत्कीर्णामिव चन्द्रमण्डलात्को मलमृणालशकलानुकारिभिरङ्ग प्रत्यङ्गे रुपेता मभिजातचन्द्रकान्तमणिमयीमतिसुरभिमालती मल्लिकामालाहारिणीं भगवतो महेश्वरस्य प्रतिमामाराधयन्नेव प्रबुद्धः प्रसन्न मनास्तदा तामेव स्वप्नशा- मालम्बनीभूतामनुचिन्तयतस्तस्य तदेकाकारमनसस्तत्रैव चित्तं स्थितिपदं लभ- ते । निद्रा चेह सात्त्विकी ग्रहीतव्या । यस्याः प्रबुद्धस्य सुखमहमस्वाप्समिति प्रत्यवमर्शो भवति । एकाग्रं हि तस्यां मनो भवति । तावन्मात्रेण चोक्तम्-ए- तदेव ब्रह्मविदो ब्रह्मणो रूपमुदाहरन्ति सुप्तावस्थेति । ज्ञानं च ज्ञेयरहितं न शक्यं गोचरवितुमिति ज्ञेयमपि गोचर क्रियते ॥ ३८ ॥ यथाभिमतध्यानाद्वा । कि बहुना यदेवभिमतं तत्तवतारूपमिति ॥ ३६॥ कथं पुनः स्थितिपदमात्मीभावोऽवगन्तव्य इत्यत आह-परमाणुपरममह स्वान्तोऽस्य वशीकारः। व्याचष्टे - सूक्ष्म इति । उक्तमर्थं पिण्डीकृत्य वशी- कारपदार्थमाह — एवं तामुभयीमिति । वशीकारस्थावान्तरफलमाह -तद्व श्रीकारादिति ॥ ४० ॥