पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. ३२ ] पातञ्जलयोगसूत्रम् तदवस्थितं स्यादिति । एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते ॥ ३०॥ दुःखदौर्मन स्याङ्गमेजयत्वश्वासप्रश्वासा विशेषसहभुवः ॥ ३१॥ दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभिहताः प्राणि- नस्तदुपघाताय प्रयतन्ते तहःखम् । दौर्मनस्यमिच्छाविघाताचेतसः क्षोभः यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । प्राणो यद्वाह्यं वायुमाचामति स श्वासः । यत्कौष्टय निःसारयति स प्रश्वासः । एते विक्षेपसहभुवो विक्षिप्त- चित्तस्यैते भवन्ति । समाहितचित्तस्यैते न भवन्ति ॥ ३१ ॥ अथैते विक्षेपाः निरोद्धव्या तत्राभ्यासस्य विषयमुपसंहरन्निदमाह- समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां ३२ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्बनं चित्तमभ्यसेत् । यस्य तु प्रत्यर्थनियतं अभावनमकरणं तत्राप्रयत्न इति यावत् । कायस्य गुरुत्वं कफादिना | चित्तस्य गुरुत्वं तमसा । गर्धस्तृष्णा। मधुमत्यादयः समाधिभूमयः । लब्धभूमेर्यदि ताव- तैव सुस्थितंमन्यस्य समाधिभ्रेषः स्यात्ततस्तस्था अपि भूमेरपायः स्यात् । यस्मा- त्समाधिप्रतिलम्मे तदवस्थितं स्यात्तस्मात्तत्र प्रयतितव्यमिति ॥३०॥ न केवलं नवान्तराया दुःखादयोऽप्यस्य तत्सहभुवो भवन्तीत्याह-दुःखेति । प्रतिकूलवेदनीयं दुःखमाध्यात्मिकं शारीरं व्याधिवशान्मानसं च कामादिवशात् । आधिभौतिकं व्याघ्रादिजनितम् । आधिदैविकं ग्रहपीडादिजनितम् । तच्चेदं दुःखं प्राणिमात्रस्य प्रतिकूलवेदनीयतया हेयमित्याह – येनाभिहता इति । अनिच्छतः प्राणो यद्वाह्यं वायुमाचमति पिचति प्रवेशयतीति यावत्स श्वासः समाध्यङ्गरेचकविरोधी । अनिच्छतोऽपि प्राणो यत्कौष्ठय वायुं निःसारयति निश्वारयति स प्रश्वासः समाध्यङ्गपूरकविरोधी ॥३१॥ उक्तार्थोपसंहारसूत्रमवतारयति—अथैत इति । अथोक्तार्थानन्तरमुपसंहर- न्निदं सूत्रमाहेति संबन्धः । निरोद्धव्यत्वे हेतुरुक्तः समाधिप्रतिपक्षा इति । यद्यपीश्वरप्रणिधानादित्यभ्यासमात्रमुक्तं तथापि वैराग्यमिह तत्सहकारितया ग्राह्यमित्याह–ताभ्यामु कलक्षणाभ्या मेवाभ्यास वैराग्याभ्यां निरोद्धव्याः । तत्र तयोरभ्यासवैराग्ययोर्मध्येऽभ्यासस्यानन्तरोक्तस्येति । तत्प्रतिषेधार्थमित्यादि । एकं तत्त्वमीश्वरः प्रकृतत्वादिति । वैनाशिकानां तत्सर्वमेकाग्रमेव चित्तं नास्ति हूँ किञ्चिद्विक्षिप्तमिति तदुपदेशानां तदर्थानां च प्रवृत्तीनां वैयर्थ्यमित्याह- , यस्य त्विति । यस्य मते प्रत्यर्थेऽर्प्यमाण एकस्मिन्ननेकस्मिन्वा नियतं याव-