पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासमाप्यसमेतम् [ पा. १ सू. ३० स्वरूपदर्शनसप्यस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्ग- स्तथायमपि बुद्धेः प्रतिसंवेदी यः पुरुष इत्येवराधिगच्छति ॥ २९ ॥ अथ केऽन्तरायाः ? ये चित्तस्य विक्षेपाः । के पुनस्ते कियन्तो वेति ? व्याधिस्त्यानसंशयप्रमादालस्याविरति- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ ३० ॥ नवान्तरायश्चित्तस्य विक्षेपाः, सहैते चित्तवृत्तिभिर्भवन्ति। एतेषा- मभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । तत्र व्याधिर्धातुरसकरणवैषम्यम् । स्त्यानमकर्मण्यता चित्तस्य । संशय उभयकोटिस्पृग्विज्ञानं–स्यादिदमेव नैवं स्यादिति । प्रमादः समाधिसाधनानामभावनम् । आलस्य कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । अविरतिश्चित्तस्य विषयसंप्रयोगात्मा गर्धः भ्रान्तिदर्शनं विपर्ययज्ञानम् । अलब्धभूमिकत्वं समाधिभूमेरलाभः । अनवस्थितत्वं लब्धायां भूमौ चित्तस्याप्रतिष्ठा । समाधिप्रतिलम्भे हिसति । ३१ साक्षात्करोत्यतिप्रसङ्गादित्यत आह – यथैवेश्वर इति । शुद्धः कूटस्थनित्य- तयोदयव्ययरहितः, प्रसन्नः क्लेशवर्जित, केवलो धर्माधर्मापेतः । अत एवानुप- सर्गः । उपसर्गा जात्यायुर्भोंगा: सादृश्यस्य किञ्चिद्भेदाधिष्ठानत्वादीश्वराद् भिनत्ति - बुद्धेः प्रतिसंवेदीति । तदनेन प्रत्यग्ग्रहणं व्याख्यातम् । अत्यन्त- विधर्मिणोरन्यतरार्थानुचिन्तनं न तदितरस्य साक्षात्काराय कल्पते । दृशार्था- नुचिन्तनं तु सदृशान्तरसाक्षात्कारोपयोगितामनुभवति एकशास्त्राभ्यास इव तत्स- दृशार्थशास्त्रान्तरज्ञानोपयोगिताम् । प्रत्यासत्तिस्तु स्वात्मनि साक्षात्कारहेतुर्न परात्मनीति सर्वभवदातम् ॥ २६ ॥ पृच्छति — अथ क इति । सामान्येनोत्तरम् –य इति । विशेषसंख्ये पृच्छ- ति–के पुनः इति । उत्तरं व्याधीत्यादिसूत्रम् । अन्तराया नव । एताश्चित्तवृत्तयो योगान्तराया योगविरोधिनश्चित्तस्य विक्षेपाः। चित्तं खल्वमी व्याध्यादयो योगा- द्विक्षिपन्त्यपनयन्तीति विक्षेपाः | योगप्रतिपक्षत्वे हेतुमाह-सहैत इति । सं- शयभ्रान्तिदर्शने तावद्वृत्तितया वृत्तिनिरोधप्रतिपक्षौ । येऽपि न वृत्तयो व्याधि- प्रभृतयस्तेऽपि वृत्तिसाहचर्यात्तत्प्रतिपक्षा इत्यर्थः । पदार्थान्व्याचष्टे व्याधिरि- ति । घातवो वातपित्तश्लेष्माणः, शरीरधारणात् । अशितपीताहारपरिणामविशे- षो रसः।करणानीन्द्रियाणि । तेषां वैषम्यं न्यूनाधिकभाव इति । अकर्मण्यता कर्मा- नर्हता । संशय उभयकोटिस्पृविज्ञानम् । सत्यप्येतद्रूपप्रतिष्ठत्वेन संशयविप- र्यासयोरभेदे उभयकोटिस्पर्शास्पर्शरूपावान्तरविशेषविवक्षयात्र भेदेनोपन्यासः ।