पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. २२ ] पातञ्जलयोगसूत्रम् संकेतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति । सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव संकेतः क्रियते । संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंबन्ध इत्यागामिनः प्रतिजानते ॥ २७ ॥ विज्ञातवाच्यवाचकत्वस्य योगिनः- तज्जपस्तदर्थभावनम् ॥ २८ ॥ प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं संपद्यते। तथा चोक्तम्-- स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमासते । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ इति ।। २८ ।। ( तुल० विष्णुपु० ६।६।२ ) किं चास्य भवति-- ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति । प्रलीना । ततो महदादि कमेणोत्पन्नस्यावाचकस्यैव माहेश्वरेण संकेतेन न शक्या वाचकशक्तिरभिज्वलयितुं विनष्टशक्तित्वादित्यत आह–सर्गान्तरेष्वपीति । यद्यपि सह शक्त्या प्रधानसाम्यमुपगतः शब्दस्तथापि पुनराविर्भवस्तच्छक्ति- युक्त एवाविर्भवति वर्षातिपातसमधिगतमृद्भाव इवोद्भिजो मेघविसु-राविष्ट धारावसेकात् । तेन पूर्वसंबन्धानुसारेण संकेतः क्रियते भगवतेति । तस्मा- त्संप्रतिपत्तेः सदृशव्यवहारपरम्पराया नित्यतया नित्यः शब्दार्थयोः सम्बन्धो न कूटस्थनित्य इत्यागमिकाः प्रतिजानते, न पुनरागमनिरपेक्षाः सर्गान्तरेष्वपि तादृश एव संकेत इति प्रतिपत्तु मीशत इति भावः ॥ २७ ॥ वाचकमाख्याय प्रणिधानमाह - तज्जपस्तदर्थभावनम् । व्याचष्टे-प्रणव- स्येति । भावनं पुनः पुनश्चित्ते निवेशनम् । ततः किं सिध्यतीत्यत आह -प्रणव- मिति । एकाग्रं संपद्यते, एकस्मिन्भगवत्यारमति चित्तम । अत्रैव वैयासिक गाथा- मुदाहरति — तथा चेति । तत ईश्वरः समाधितत्फललामेन तमनुगृह्णाति ॥ २८ ॥ किं च परमस्मात् – ततः प्रत्यक चेतनाधिगमोऽप्यन्तरायाभावश्च । प्रतीपं विपरीतमञ्चति विजानातीति प्रत्यक्स चासौ चेतनश्चेति प्रत्यक्चेतनोऽविद्यावान् पुरुषः । तद नेनेश्वराच्छाश्वतिकसत्त्वोत्कर्षसंपन्नाद्विद्यावतो निवर्तयति। अविद्यावतः प्रतीचश्चेतनस्याधिगमो ज्ञानं स्वरूपतोऽस्य भवति । अन्ताराया वक्ष्यमाणास्तद- भावश्च । अस्य विवरणं—ये तविदिति । स्वमात्मा तस्य रूपम् । रूपग्रहणेनाविद्यास- मारोपितान्धर्मान्निषेधति । नन्वीश्वरप्रणिधानमीश्वरविषय कथमिव प्रत्यक्चेतनं