पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृत टीकायुत व्यासभाष्यसमेतम् [ पा. १ सू. २७ बेट कारुण्याद्भगवान्पर मर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ॥ २५ ॥ २९ स एषः- पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः । यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस्तथाति- क्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥ २६ ॥ तस्य वाचकः प्रणवः ॥ २७ ॥ वाच्य ईश्वरः प्रणवस्य | किमस्य संकेतकृतं वाच्यवाचकत्वमथ प्रदीप- प्रकाशवदवस्थितमिति । स्थितोऽस्य वाच्यस्य वाचकेन सह संबन्धः। संकेत- स्त्वीश्वरस्य स्थितमेवार्थमभिनयति । यथावस्थितः पितापुत्रयोः संबन्धः ग्रहादेव ज्ञानप्राप्तिः श्रूयत इति । कपिलो नाम विष्णोरवतारविशेषः प्रसिद्धः । स्वयंभू हिरण्यगर्भः । तस्यापि सांख्ययोगप्राप्तिवेंदे श्रूयते । स एवेश्वर आदिविद्वान्कपिलो विष्णुः स्वयंभूरिति भावः । स्वायंभुवानां त्वीश्वर इति भावः ॥ २५ ॥ - - संप्रति भगवतो ब्रह्मादिभ्यो विशेषमाह स एष इति । पातनिका–स एष इति । सूत्रम् – पूर्वेषामपि गुरुः कालेनानवच्छेदात् । व्याचष्टे – पूर्वे हीति । कालस्तु शतवर्षादिरवच्छेदार्थेनावच्छेदेन प्रयोजनेन नोपावर्तते न वर्तते। प्रकर्षस्य गतिः प्राप्तिः । प्रत्येतव्य आगमात् । तदनेन प्रबन्धेन भगवा- नीश्वरो दर्शितः ॥ २६ ॥ संप्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकमाह तस्य वाचकः प्रणवः । व्याचष्टे – वाच्य इति । तत्र परेषां मतं विमर्शद्वारेणोपन्यस्यति–किमस्येति । वाचकत्वं प्रतिपादकत्व मित्यर्थः । परे हि पश्यन्ति यदि स्वाभाविकः शब्दार्थयोः संबन्धः संकेते नास्माच्छब्दादयमर्थः प्रत्येतव्य इत्येवमात्म केनाभिव्यज्येत, ततो यत्र नास्ति स संबन्धस्तत्र संकेतशतेनापि न व्यज्येत । न हि प्रदीपव्यङ्गयो घटो यत्र नास्ति तत्र प्रदीपसहस्रेणापि शक्यो व्यङ्क्तुम् । कृतसंकेतस्तु करमशब्दो वारणे वारणप्रतिपादको दृष्टः । ततः संकेमकृतमेव वाचकत्वमिति विमृश्याभिमतमव- धारयति—स्थितोऽस्येति । अयमभिप्रायः – सर्व एव शब्दाः सर्वाकारार्थाभि- धानसमर्था इति स्थित एवैषां सर्वाकारैरर्थैः स्वाभाविकः संबन्धः । ईश्वरसं के- तस्तु प्रकाशकश्च नियामकश्च तस्य । ईश्वरसंकेतासंकेतकृतश्चास्य वाचका- पभ्रंशविभागः । तदिदमाह—संकेतस्त्वीश्वरस्येति । निदर्शनमाह - यथेति । ननु शब्दस्य प्राधानिकस्य महाप्रलयसमये प्रधानभावमुपगतस्य शक्तिरपि