पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. २५ ] पातञ्जलयोगसूत्रम् Sta hisemuls तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या । तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्; ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा चोक्तम्-आदिविद्वान्निर्माणचित्तमधिष्ठाय सर्वप्रमाण- पत्तिरित्यत आह-तस्येति । बुद्धा दिप्रणीतश्चागमाभासो न त्यागमः, बाधितक्षणिकनैरात्म्यादिमार्गोपदेशकत्वेन विप्रलम्भकत्वादिति भावः । तेन श्रुतिस्मृतीतिहासपुराणलक्षणादागमत आगच्छन्ति बुद्धिमारोहन्ति अस्माद- भ्युदयनिःश्रेयसोपाया इत्यागमः । तस्मात्संज्ञादिविशेषप्रतिपत्तिः संज्ञाविशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः । आदिपदेन षडङ्गतादशाव्ययते संगृहीते । यथोक्तं वायुपुराणे-- “सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥ " ( १२ | ३३ ) तथा – "ज्ञानं वैराग्यमैश्वयं तपः सत्यं क्षमा धृतिः । २८ स्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे ॥” (तत्रैव १०/६५-६६) इति । स्यादेतत् - नित्यतृप्तस्य भगवतो वैराग्यातिशयसंपन्नस्य स्वार्थे तृष्णासंभवा- त्कारुणिकस्य च सुखैकतानजनसर्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्ते- रप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगत्क्रियेत्यत आह—तस्यात्मानुग्रहाभावेऽपीति । भूतानां प्राणिनामनुग्रहः प्रयोजनम् । शब्दाद्युपभोगविवेकख्यातिरूपकार्य करणात्किल चरितार्थं चित्तं निवर्तते । ततः पुरुषः केवली भवति । अतस्तत्प्रयोजनाय कारुणिको विवेकख्या- त्युपायं कथयति । तेनाचरितार्थत्वाच्चित्तस्य जन्तूनीश्वरः पुण्या पुण्यसहायः सुखदुःखे भावयन्नपि नाकारुणिकः । विवेकख्यात्युपायकथने द्वारमाह- ज्ञानधर्मोपदेशेनेति । ज्ञानं च धर्मश्च ज्ञानधर्मों, तयोरुपदेशेन ज्ञान- धर्मसमुच्चयाल्लब्धविवेकख्यातिपरिपाकात्कल्पप्रलये ब्रह्मणो दिनावसाने यत्र सत्यलोकवर्जं जगदस्तमेति । महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणः स्वकारणगामिनोऽतस्तदा मरणदुःखभाजः। कल्पेत्युपलक्षणमन्यदापि । • स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुवरिष्यामीति कैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्यर्थः । एतच्च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कापिला- नामपि सिद्धमित्याह-तथा चोक्तमिति । पञ्चशिखाचार्येण-आदिविद्वान् कपिल इति । आदिविद्वानिति पञ्चशिखाचार्यवचनमादिमुक्तस्व संतानादिगुरुविषयं न त्वनादिमुक्तपरमगुरुविषयम् । आदिमुक्तेषु कदाचिन्मुक्तेषु विद्वत्सु कपिलोऽस्मा- कमादिविद्वान्मुक्तः स एव च गुरुरिति । कपिलस्यापि जायमानस्य महेश्वरानु-