पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटी कायुतव्यासभाष्यसमेतम् तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः । इति ॥ २४ ॥ किं च-- पर [पा. १ सू. २५ स च पुरुषविशेष Glo तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ यदिदमतीतानागतप्रत्युत्पन्न प्रत्येक समुच्चयातीन्द्रियग्रहणमल्पं बह्निति सर्वज्ञबीजमेतद्धिवर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति । (सीमित) यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति । सामा- न्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थम्, इति न्यैरेकेनैवेशनायाः कृतत्वात् । संभूयकारित्वे वा न कश्चिदीश्वरः परिषद्वत् । नित्येशनायोगिनां च पर्यायायोगात्कल्पनागौरवप्रसङ्गाच्चेति द्रष्टव्यम् । तस्मा- सर्वमवदातम् ||२४|| एवमस्य क्रियाज्ञानशकौ शास्त्रं प्रमाणमभिधाय ज्ञानशक्तावनुमानं प्रमाणय- ति — किञ्चेति - -तत्र निरतिशयं सर्वज्ञबीजम् । व्याचष्टे- यदिदिमिति । बुद्धिसत्त्वावरकतमोऽपगमतारतम्येन यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानामतीन्द्रियाणां ग्रहणं, तस्य विशेषणमल्पं बह्निति, सर्वज्ञबीजं कारणम् । कश्चित्किचिदेवातीतादि गृह्णाति कश्चिद्बहु कश्चिद्बहुतरं कश्चिद्वहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम् । एतद्धिवर्धमानं यत्र • निष्क्रान्तमतिशयात्स सर्वज्ञ इति । तदनेन प्रमेयमात्रं कथितम् । अत्र प्रमाण- यति–अस्ति काष्ठा प्राप्तिः सर्वज्ञवीजस्येति । साध्यनिर्देशः । निरतिशयत्वं काष्ठा, यतः परमतिशयवत्ता नास्तीति । तेन नावधिमात्रेण सिद्धसाधनम् । सातिशयत्वादिति हेतुः । यद्यत्सातिशयं तत्तत्सर्वं निरतिशयं, यथा कुवलामल- कबिल्वेषु सातिशयं महत्त्वमात्मनि निरतिशयमिति व्याप्ति दर्शयति-परिमाण- वदिति। न च गरिमादिभिर्गुणैर्व्याभिचार इति सांप्रतम् । न खल्ववयवगरिमा- तिशयी गरिमावयविनः । किं त्वा परमाणुभ्य आन्त्यावयविभ्यो यावन्तः केचन तेषां सर्वेषां प्रत्येकवर्तिनो गरिम्णः समाहृत्य गरिमवर्धमानाभिमानः । ज्ञानं तुन प्रतिज्ञेयं समाप्यत इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभि चारः । उपसंहरति — यत्र काष्ठेति । ननु सन्ति बहवस्तीर्थंकरा बुद्धाहंतकपिलर्षिप्रभृतयः । तत्कस्मात्त एवं सर्वज्ञा न भवन्त्यस्मादनुमानादित्यत आह सामान्येति । कुतस्तर्हि तद्विशेषप्रति-