पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायु तव्यासभाष्यसमेतम् [ पा. १सू. ३२ प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तम् । यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते तदा भवत्येकाग्र- मित्यतो न प्रत्यर्थनियतम् । योऽपि सदृशप्रत्ययप्रवाहेन चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात् । अथ प्रवाहां- शस्यैव प्रत्ययस्य धर्मः स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थ- मवस्थितं चित्तमिति । यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ कथ मन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्, अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः दर्थावभासमुत्पन्नं तत्रैव समाप्तमनन्यगामि । अर्थान्तरं तावत्प्रथमं गृहीत्वा- र्थान्तरमपि पश्चात्कस्मान्न गृह्णातीत्यत आह -क्षणिकं च । क्षणस्याभेद्यत्वेन पूर्वपश्चाद्भावस्याप्यभाव इति भावः । अस्मन्मते त्वक्षणिकं चित्तं स्वविषय एकस्मिन्ननेकस्मिन्वानवस्थितं प्रतिक्षणं तत्तद्विषयोपादानपरित्यागाभ्यां विष- यानियतं विक्षिप्तमतो विक्षेपपरिणाममपनीय शक्यैकाग्रताधातुमिति तदुपदे- शप्रवृत्त्योर्नानर्थकत्वमित्याह – यदि पुनरिदमिति । उपसंहरति—अतो नेति । वैनाशिकमुत्थापयति—योऽपीति । मा भूदेकस्मिन्क्षणिके चित्त एकाग्रताधान- प्रयत्नः । चित्तसंताने त्वनादावक्षणिके विक्षेपमपनीयैकाग्रताधास्यत इत्यर्थः । तदेतद्विकल्प्य दूषयति—तस्येति । तस्य दर्शन एकाग्रता यदि प्रवाहचित्तस्य चित्तसंतानस्य वा धर्मः । तत्रैकं क्रमवदुत्पादेषु प्रत्ययेष्वनुगतं नास्ति प्रवाहचि- त्तम् । कुतः ? यद्यावदस्ति तस्य सर्वस्य क्षणिकत्वादक्षणिकस्य चासत्त्वाद्भवतां दर्शन इति भावः । द्वितीयं कल्पं गृह्णाति—अथेति । सांवतस्य प्रवाहस्यांशः प्रत्ययः परमार्थः सन्, तस्य प्रत्ययस्यैकाग्रता प्रयत्नसाध्यो धर्मः । दूषयति–स सर्व इति । सांवृतप्रवाहापेक्षया सदृशप्रत्ययप्रवाही वा विसहशप्रत्ययप्रवाही वा । अतः परमार्थसता रूपेण प्रत्यर्थनियतत्वाद्यदर्थावभास उत्पन्नस्तत्र समासत्वा- देकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः, यदपनयेनैकाग्रताधीयत इति । उपसंहरति तस्मादिति । इतोऽपि चित्तमेकमनेकार्थमवस्थितं चेत्याह–यदि चेति । यथा हि मैत्रेणा- धीतस्य शास्त्रस्य न चैत्रः स्मरति । यथा मैत्रेणोपचितस्य पुण्यस्य पापस्य वा कर्माशयस्य फलं तदसंबन्धी चैत्रो न भुङ्क्त एवं प्रत्ययान्तरदृष्टस्य प्रत्ययान्तरं न स्मरेत् । प्रत्ययान्तरोपचितस्य वा कर्माशयस्य फलं च न प्रत्ययान्तरमुपभुञ्जीते- त्यर्थः । ननु नातिप्रसज्यते, कार्यकारणभावे सतीति विशेषणाच्छ्राद्धवैश्वानरी- ३ यो० सू०