पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । २५ त्यवयवः पुरुषः पुरुषाकृतिखात्पुरुषः सोऽहमसि भवामि सोऽहमस्म्य- मृतमिति संबन्धः ममामृतस्य सत्यस्य शरीरपाते शरीरस्थो यः प्राण- वायुः सोऽनिलं बाह्यं वायुमेव प्रतिगच्छतु तथान्यादेवताः स्वां स्वां प्रकृति गच्छन्तु अथेदमपि भस्मान्तं सत्पृथिवीं या तु शरीरमिति ॥ अग्निोतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना इति स्मृतिरप्युक्तार्थे प्रमाणमिति ॥ गायत्री वा इदं सर्व भूतं यदिदं किञ्चित् वाग्वै गायत्री वाग्वा- इदं सर्व भूतं गायति त्रायते च १ यावैसा गायत्रीयं वाव सा येयं पृथिव्यस्यां हि सर्वमिदं भूतं प्रतिष्टितमेव च नातिशीते २ इत्यादिकं नवचं ब्राह्मणं छान्दोग्योपनिषदि तृतीयाध्यायस्य द्वादशे खण्डे ग्रथितं गायत्र्युपासना हि ब्रह्मोपासनेन्यत्र प्रमाणं सदस्या उपासनाया ब्रह्मा- वाप्तिफलकसाधनतामर्थतः सूचयति । अन्तिमया ऋचाविनश्यच्छीलाभमु-