पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । २४ सत्यात्मन उपलब्धये ॥ वाजसनेयोपनिषद्यपत्थिं श्रुतयः तदर्थवाचि- का निर्दिष्टायथा। पूषन्नेकर्षे यमसूर्यप्राजापत्यव्यूहरश्मीन् । समूहतेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि वायु- रनिलममृतमथेदं भसात्तं शरीरम् ।। पूषन्नित्यादीनि नामान्यामन्त्रणा- र्थानि सवितुः एकश्चासावृषिश्चैकर्षिः दर्शनादृषिः स हि सर्वस्य जगत आत्मा चक्षुश्च सन्सर्व पश्यति एकोवागच्छतीत्येकर्षिः सूर्य एकाकी चरतीति यमसर्व हि जगतः वत्कृतं संयमनं सूर्यसुष्टु ईरयते रसात्र- श्मीन्प्राणान् धियो वा जगत इति प्राजापत्यप्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा व्यूह विगमय रश्मीन् संक्षिपात्मनस्तेजो येनाहं शक्नुयां खत्सुरूपमञ्जसा द्रष्टुम् । विद्योतनरूपाणाम् अत उपसंहर तेजः यत्ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमं तत्तेपश्यामि पश्यामो वयं वचनव्यत्ययेन योऽसौ भूर्भुवः स्वाह-