पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । २१ यिता भवति आदित्यमण्डलान्तर्गतपुरुषो यस्तत्र मण्डलेवस्थितः स मा धीरो धीमान् प्रतिविशिष्टयाबुझ्यान्वितः बुद्धिरेव हि तस्य शरी- रम् पाकः पक्तव्यः पक्तव्यप्रज्ञो विपक्कप्रज्ञः सम्पग्दर्शनानुग्राह्यतयाऽऽवि- वेश आविशतु इति । प्रत्यक्षसिद्धंदशकाष्टाव्यापनं सूर्यरश्मीनां श्रुति- रपि वेदयति । इनो विश्वस्य भुवनस्य गोपा, इत्यनेन भागन वर्षणता- पाभ्यामन्नादिसम्पादनद्वारा भुवनपालकवं च द्वादशात्मन आशास्ते । चतुर्थपादेन जीवप्रज्ञायामादित्यान्तर्गतपुरुषम्य प्रवेशं च वक्तीति सर्व- थाप्रोक्तार्थोपोद्धलकारिण्येषा श्रुतिः ।। श्रीनिरुक्तद्वितीयाध्यायस्य उदा. हृता ऋक्प्रकृतमत्रपादद्वयार्थानुवादकतयो पन्यस्यते यथा । उतादः परुषे गवि सूरचक्रं हिरण्ययम् न्यैरयद्रथीतमः ॥ अवार्थः उतादः उत अपि अथ इति च्छन्दसि समानार्थाः अपि रसानादत्ते अपि तमांसि अप- हन्ति अदः अस्मिन्नादित्यमण्डले परुषि पर्वभिः तद्वति अथवा भा