पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ गायत्रीमन्त्रार्थविवृतिः । स्वति भासा तद्वति अहोरात्रादिपर्वतद्वतीत्यौपमन्यवः गवि गमनशी- ले मुहूर्तमप्यनवस्थायिनि सूरः सूर्यः अवस्थितः पूषा आदित्यमण्ड- लान्तः पुरुषः तदेव पर्ववद्भास्वद्वा चक्रं चकनं कमणं वा गमनशी- लं मण्डलं हिरण्ययम् तेजोमयं चक्राकृति न्यैरयत् नियतगमनवृत्ति- ना मार्गेण नित्यकालमीरयति उदयास्तमयमध्यन्दिनकालोपलक्षणा- र्थम् । अथवामुष्मिन्मण्डले वस्थितः भगवान सूर्यो लवनिमेषक्षणमु- हूर्ताहोरात्रार्थमासमासर्वयनसंवत्सरलक्षणं कालचक्रं सर्वभूतहारि हिर- ण्ययं तेजोमयं सर्वभूतस्थितिविनाशहेतुं न्यैरयत् नित्यमीरयति की- शः पुनः सः सूर्यः रथीतमः अन्येपि रथिनः सन्ति अयं तु मुहू- तमप्यनवस्थित इत्यतो रथीतमः स एवं गुणयुक्तः पूषा तं वयमभि- प्रेतार्थसिद्धये स्तुम इति ॥ एतन्मन्त्रोपासकस्योदिष्टब्रह्मस्वरूपावाप्यादिफलानां प्राप्तौ प्रमाणानि