पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविकृतिः । २० मेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपः स मा धीरः पाकमत्राविवेश ॥ अस्याथः यत्र यस्मिन् मण्डलऽवस्थिताः सुपणीः सुपतना अादित्यरश्मयः ते हि शोभनमर्थमुद्दिश्य तमोविघातलक्षणं पतन्ति अथवा शोभमानाः पतन्तीति सुपर्णाः तं किं कुर्वन्ति उच्यते अमृतस्य भागमुदकस्य भागं भजनीयमंशमादाय पृथिवीलोकात्तेना- न्विताः सन्तः सर्वभूतान्यभिम्वरन्ति स्वशब्दोपतापनयाराभतपन्ती- त्यर्थः अथवाभिस्वरन्त्यादित्यमण्डलम् आभिमुख्यन रसान् गृहीला प्रयान्ति अनिमिषन्त अनिमिषमाणा इवादरवन्त इत्यर्थः वेदनेन स्वकमाधिकारयुक्तनान्विताः सन्तः इदमेवास्माभिः कर्तव्यमादानादिल- क्षणं कर्मेत्यभिस्वरन्ति यत्रैवं लक्षणं कर्म कुर्वन्त्यादित्यरश्मयः तत्र किं उच्यते । इनो विश्वस्य भुवनस्य गोपा इन ईश्वरः इनो ह्यसावादि- त्य ऐश्वर्येण भवति विश्वस्य भुवनस्य सर्वेषां भूतानां गोपाः गापा