पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ गायत्रीमन्त्रार्थविवृतिः । द्यौरित्यष्टावक्षराण्यष्टाचरं हवा एकं गायत्र्याः पादमेतदुहैवास्या एत- त्स यावदेषु त्रिषु लोकेषु तावञ्जयति योऽस्या एतदेवं पादं वेद ।। १ ॥ ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं हवा एकं गाय- त्र्याः पादमेतदुहेवास्या एतत्स यावतीयं त्रयी विद्या तद्धजयति यो- स्या एवं वेद ॥ २ ॥ प्राणोऽपाणो व्यान इत्यष्टावक्षराण्यष्टाक्षरं हवा एकं गायत्र्याः । पादमेतदुहैव एतत्स यावदिदं प्राणि तावद्ध जयति योऽस्या एवं पादं वेदेति ॥ ३ ॥ इति चतुर्थीयं युक्ति- कल्पना ॥ अथाधुनैतस्य मन्त्रस्यार्थो निर्णीयते स चार्थो निर्गुणब्रह्ममायाशव- लविषयतयाद्विधा मायाशवलश्च हिरण्यगर्भप्राणादित्यतया द्विविधः तत्र शुद्धब्रह्मवाचकता यथा ॥ तत्सदितिनिर्देशो ब्रह्मणस्त्रिविधः स्मृत इति श्रीभगवद्गीतान्तर्गतपद्यप्रमाणितशुद्धब्रह्मवाचकेन तदिति शब्देन