पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
काव्यमाला ।

रषु। भणतिः पुरुषेषु । कणतिः पीडितेषु । वातिर्वायौ । न त्वन्यत्र । नहि दृश्यते पुरुषो वातीति । एवमन्येऽपि द्रष्टव्याः । अन्यत्रैतेऽनुचिताः । मेघादिषु रणत्यादय इत्यर्थः । अपिशब्दो विस्मये । चित्रमिदं यच्छब्दार्थे समानेऽपि ग्राम्यत्वमेषां वस्तुविषयेणैव । ग्राम्यत्वे नास्मिन्दोषे परिहृते पुनर्वचनं प्रपञ्चार्थम् । अथ देश्यमाह प्रकृतिप्रत्ययमूला व्युत्पत्तिर्नास्ति यस्य देश्यस्य । तन्मंडहादि कथंचन रूढिरिति न संस्कृते रचयेत् ॥ २७ ॥ प्रकृतीति । विशिष्टदेशे भवं देश्यम् । महाराष्ट्रादिदेशप्रसिद्धम् । देशीयं पदं संस्कृते न रचयेत् । यस्य पदस्य प्रकृतिप्रत्ययमूला व्युत्पत्तिर्न विद्यते तच्च मडहादि । तत्र मडह डहहरणपुंघुलमकंदोऽएलहुक्कसयरुयअलंबकुसुमालवाणवालादिकं यथाक्रमं सूक्ष्मश्रेष्ठ वस्त्रपटमण्डपपतृहरिद्राञ्जलिसुवर्णकारकुकुटचौरशक्रादिवाचकं कथंचिदपि नैव रचयेद- त्यर्थः । ननु देइयप्राकृतभेदत्वात्कथं संस्कृते प्रयोगप्रसङ्ग इत्याह-रूढिरिति । रूढि- भ्रान्त्या न बभीयात्। कश्चियात्मदेशप्रसिद्धार्थ शब्दं सर्वत्रायं वाचक्र इति मन्यमानः प्रयुञ्जीत । 'व्युत्पत्तिर्यस्य नास्ति’ इति वचनातु सव्युत्पत्तिकं देयं कदाचित्प्रयुञ्जीतेत्युक्तं भवति । यथा दूर्वायां छिन्नोद्भवाशब्दः। ताले भूमिपिशाचः। शिवे महानटः । वृक्षे परशुरुजः । समुद्रनवनीतं चन्द्रामृतयोः। जले मेघक्षीरशब्दः। एवमन्येऽपि । अथ दोषानुपसंहर्तुमाह इत्थं पददोषाणां दिङ्मात्रमुदाहृतं हि सर्वेषाम् । तस्मादनयैव दिशा ततोऽन्यदभ्यूह्यमभियुक्तैः ॥ २८ ॥ इत्थमिति । इत्थमनेन पूवोंक्तप्रकारेण पददोषाणां सर्वेषां दिगेव दिङ्मात्रं हिर्यस्मादुदा हृतं निदर्शितं तस्मादनयैव दिशान्यदपि दोषजातं स्वयमूहनीयम् । पूर्वमुक्तमधिकपदं वाक्यं न प्रयोक्तव्यमथ च दृश्यते क्कचिदसकृत्प्रयोगस्तदतिव्या- L; हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्यात्तत्पुनरुत न दोषाय ॥ २९ ॥ वक्तेति । वक्ता प्रतिपादको हेर्पभयादिभिराक्षिप्तचित्तः सन्यत्पदमेकस्मिन्नेवाथं पुनः पुनर्वक्ति तत्पुनरुक्तत्वं दोषाय न भवति । अपि त्वलंकरायेत्यर्थः । आदिग्रहणाद्विस्म- यशोकादिसंग्रहः। तथाशब्दः समुच्चये ॥ निदर्शनमाह वद वद जितः स शत्रुर्न हतो जपंश्च तव तवास्मति । चित्रं चित्रमरोदीद्धा हेति परा हते पुत्रे ॥ ३० ॥