पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

६ अध्याय: काव्यालंकार: |

     जय जय वैरिविदारण कुरु कुरु पादं शिरःसु शत्रूणाम् |
     धिग्धिक्तमरिं यस्त्वामप्रणमन्स्वं विनाशयति ॥ ३१ ॥ 
वदेति । जयेति । अत्र वद वदेति हर्षे । तव तवास्मीति भये । चित्रं चित्रमिति विस्मये । हा हेति शोके । जय जयेति स्तुतौ । कुरु कुर्वंति त्वरायाम् । धिग्धिगिति निन्द्यायाम् अन्यन्निगदसिद्धम्।।
 भूयोऽप्याह-
       यत्पदमर्थेऽन्यस्मिंस्तत्पर्यायोऽथवा प्रयुज्येत ।
       वीप्सायां च पुनस्तन्न दुष्टमेवं प्रसिद्धं च ॥ ३२ ॥

यदिति । यत्पदमन्यमर्थमभिधातुं द्विः प्रयुज्यते तत् । तथा तस्य प्रयुक्तपदस्य पर्यायो वाचको यः प्रयुज्येत । तथा वीप्साप्रतिपादनार्थं वा यत्पुनः पदं प्रयुज्येत तत्पदं न पुनरुक्तदोषदुष्टं भवति । एवं प्रसिद्धं च। इत्येवं वोप्सातुल्यरूपेण प्रकारेण यत्कविलक्ष्येषु प्रसिद्धं तदपि पुनरुक्तं न दोषाय । यथा कलकलरणरणकादिकम् । तथैव लोके प्रसिद्धत्वादिति । ननु तुल्यपदस्य तत्पर्यायपदस्य वान्यार्थत्वेन वीप्सावाचकस्य वीप्साप्रतिपादकत्वेन तदर्थत्वादेव पुनरुक्तिर्न दुष्टा तत्क्रिमनेनेति सत्यम् । किं तु कश्चिदतिमन्दमतिः पुनः प्रयोगं दृष्ट्वा दुष्टत्वमाशङ्केतेति॥
 क्रमेण निदर्शनमाह-
        गजरक्तरक्तकेसरभारः सिंहोऽत्र तनुशरीरोऽपि ।
        दिशि दिशि करिकुलभङ्गं वारंवारं स्वरैः कुरुते ॥ ३३ ॥

गजेति । प्रथमेऽत्र पादे रक्तशब्दावन्यार्थौ । एको रुधिरवाचकोऽपरस्तु रञ्जनक्रियाभिधायी ।  तनुशरीर इत्यत्र तनुशब्दस्तानवाभिधायी तत्पर्यायः शरीरशब्दः कायवाचकः । दिशि दिशीति वीप्सायाम् । सर्वस्यां दिशीत्यर्थः । वारंवारमिति लोकप्रसिद्धम् । अन्यदपि लोकप्रसिद्धं दृश्यते । यथा —‘मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीत भीत इव शीतमयूखः ॥' तथा— ‘ता किंपि किंपि ता कह विअब्बो निमीलियच्छीहिम् । कडुओसहं व पिज्जइ अहरो घेरस्स तरुणीहिम् ।। उद्भटस्तु सर्वत्रात्र पुनरुक्ताभासालंकारत्वमाचष्टे ।।
 प्रकारान्तरमाह-
       यच्च प्रतिपत्ता वा न प्रतिपद्येत वस्तु सकृदुक्तम् ।
       तत्र पदं वाक्यं वा पुनरुक्तं नैव दोषाय ॥ ३४ ॥
यदिति । यद्वस्तु सकृदेकवारमुक्तं सत्प्रतिपत्ता । वाशब्दोऽवधारणे । प्रतिपत्तैव न प्रतिपद्येत । तत्र वस्तुनि वाच्ये पदं वाक्यं वा नैव दोषाय । चः समुच्चये । तच्च पदं निर्दोषपदमध्ये समुच्चीयत इत्यर्थः ।।