पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६ अध्यायः]
६७
काव्यालंकारः ।

अथैतदतिव्याप्तिपरिहारार्थमाह अर्थविशेषवशाद्वा सम्येऽपि तथा क्वचिद्विभक्तेर्वा । अनुचितभावं मुञ्चति तथाविधं तत्पदं सदपि ॥ २३ ॥ अर्यैथि । ग्राम्यं यत्पदं तत्तथाविधं ग्राम्यं सदपि क्कचित्सभ्येऽर्थे उचितभावं ग्राम्यत्वं मुञ्चति । कुतोऽर्थविशेषवशाद्वा, विभक्तेवी । वाशब्दौ विकल्पर्थो । विशिष्टसभ्यार्थप्र योगाद्वा विभक्तिविशेषाद्वेत्यर्थः । अपिविस्मये संभावने वा । तथाशब्दः समुच्चयार्थः । पदमेतद्दोषाभावमध्ये समुच्चीयते । क्वचिच्छब्दो विरलत्वप्रतिपादनार्थः। क्वचिदेवार्थविशेषे न सर्वत्रेत्यर्थः । निदर्शनमाह कथमिव वैरिगजानां मदसलिलक्किन्नगण्डभित्तीनाम् । दुर्वारापि घटसौ विशांपते दारिता भवता ॥ २४ ॥ कथमिति । निगदसिद्धम् । अत्रार्थविशेषो गजो वीररसश्च । कथं तर्हि नायिकायां बाहुल्येन दृश्यते । यथा -‘धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् । नृपसुतमपरा स्मराभितापादमधुमदालस लोचनं निदध्यौ ।’ कामिनीलक्षणोऽर्थविशेषो ऽत्रापीति चेत्तर्हि ‘वारयति सखी तस्याः(६२२) इति दुष्टत्वे कथमुदाहरणम् । पाण्डुशब्द संनिधानादत्रानुप्रासत्वेन रम्यत्वाददोष इति नोत्तरम् । विनापि पाण्डुशब्दप्रयोगं दर्श नात् । ‘दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः’ इत्यादिषु । तस्मात्पूर्वकविलक्ष्याणां बहूनां दुष्टत्वमायाति । अत्रोच्यते-क्लिन्नशब्दसंनिधानादेव गण्डशब्दस्यासभ्यत्वं स्फु- रति न त्वन्यदा । इत्येतदेव दर्शयितुमुदाहरणे तथैव प्रयुक्तवानिति । विशांपते इत्यत्र षष्ठीबहुवचनवशन्न विट्शब्देन विष्ठालक्षणोऽसभ्यार्थं मनसि निधीयते । भूयोऽपि ग्राम्यविशेषानाह- मीरादिषु रणितप्रायान्पक्षिषु च कूजितप्रभृतीनं । मणितप्रायान्सुरते मेघादिषु गर्जितप्रायान् ॥ २९ ॥ दृष्ट्वा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत । अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥ २६ ॥ (युग्मम्) मीरादिष्विति । दृष्टुं ति । वाच्येऽर्थे तुल्येऽप्येतेष्वेतान्धातून्पूर्वकविभिः प्रयुज्य- मानान्दृष्ट्वा तेष्वेव निबध्नीयात्। नान्यत्र । यतस्तलक्ष्यमेवान्यत्र व्यवस्थाकारि । मीरं नूपुरम् । आदिग्रहणादशनाघण्टाभ्रमरादिसंग्रहः । रणितप्रायानिति प्रायग्रहणं सदृशार्थ वृत्तिकणिशिञ्जिगुञ्जत्याद्यर्थम् । प्रभृतिग्रहणं वाशत्याद्यर्थम् । सुरतग्रहणं व्यापारान्तरनि- वृत्यर्थम् । मेघादिष्वित्यत्रादिग्रहणं सिंहगजाद्यर्थम् । प्रायग्रहणं ध्वनत्याद्यर्थम् । एवं प्रायानिति ये शास्त्रेषु सामान्येन पठ्यन्ते । अथ च विशेष एव दृश्यन्ते । यथा-दोषति