पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
काव्यमाला ।

काव्यमाला। तत्रभवन्निति । गरीयस उत्तमान्सुरमुनिप्रभृतीस्तत्रभवन्भगवञ्शब्दवाच्यानप्यधमो वक्तैवमादिभिः शब्दैवक्तुं नार्हति न योग्यो भवति । वक्तृविषयं पदमिदमनुचितम् । तथैतानगरीयसो भट्टारकशब्दयोग्यानप्यन्य उत्तमस्वभावो राजादिर्वक्तुं नार्हति । इति- शब्दौ स्वरूपनिर्देशाौँ । चशब्दोऽनुक्तस्वामिप्रभृतिशब्दसमुच्चयार्थः । भट्टारकेति स्वा- मिनित्यादि वेत्यर्थः ॥ इदानी वस्तुविषयं ग्राम्यमाह- तत्रभवन्भगवन्निति नैवाहत्युत्तमोऽपि राजानम् । वक्तुं नापि कथंचिन्मुनिमपि परमेश्वरेशेति ॥ २० ॥ तत्रभवन्निति । उत्तमो मुनिमन्त्रिप्रभृतिस्तत्रभवदादिपूजापदानि वक्तुं योग्योऽपि रा- जानमेभिः पूजापदैवक्तुं नाहति । वस्तुविषयमेतदनौचित्यम् । राजा हि परमेश्वरादिभिः शब्दैर्वाच्यो न तु तत्रभवदादिभिरिति । तथा स एवोत्तमो राजा मुनिं तपोधनं परमे- श्वरेशेत्यादिभिरामन्त्रणपदैः कदाचिदपि वक्तुं नाहति । नियतविषया हि शब्दास्तेऽन्यत्र केलिं विना प्रयुज्यमाना अनौचित्यज्ञतां गमयेयुरिति ग्राम्यत्वं तेषाम् । आस्तां ताव- दधम उत्तमोऽपि नाहतीत्यपिशब्दार्थः । दिङ्मात्रप्रदर्शनं चैतत् । विस्तरस्तु भरतादव- गन्तव्यः॥ भूयोऽपि ग्राम्यविशेषमाह- पदमिदमनुचितमपरं सभ्यासभ्यार्थवाचि सभ्येऽर्थे । तद्धि प्रयुज्यमानं निदधाति मनस्यसभ्यमपि ॥ २१॥ पदमिति । इदमपरं पदमनुचितं ग्राम्यं यत्सभ्यासभ्यार्थवाचकं सत्सभ्येऽर्थे प्रयुज्यमा- नम् । सभायां पर्षदि वक्तुं योग्यः सभ्यस्ततोऽन्योऽसभ्योऽर्थः । कुतोऽनुचितम् । हिर्य- स्मादर्थे । यतस्तत्प्रयुज्यमानं सन्मनसि चेतस्यसभ्यमप्यर्थं निदधाति स्फुरयति । नन्वेवं- विधस्य पदस्योभयार्थवाचकत्वादसभ्योऽपि प्रयोगो न स्यात्ततश्चास्य प्रयोगोच्छेद एवा- गतः । नैतत् । अदुष्टो ह्यर्थो दुष्टेन दूष्यते न तु दुष्टः साधुनेति ।। निदर्शनमाह- वारयति सखी तस्या यथा यथा तां तथा तथा सापि । रोदितितरां वराकी बाष्पभरक्किन्नगण्डमुखी ॥ २२ ॥ वारयतीति । तस्या नायिकायाः सखी यथा यथा तां वारयति तथा तथा सा वराकी रोदितितराम् । कोदृशी । बाष्पभरेण क्लिनगण्डमाकपोलं मुखं यस्याः सा तथाविधा । अत्र क्लिन्नगण्डशब्दावाकपोले सभ्येऽर्थे प्रयुक्तावपि पूययुक्तपिटकत्वलक्षणमसभ्यमप्यर्थ स्फुरयतः । यतोऽसभ्यद्वययोगाच्चात्र विशेषणविशेष्यभावे सति दुष्टतरार्थत्वम् ॥