पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
काव्यमाला ।

बलं सैन्यमन्तर्मध्य आर ससार । कीदृशोऽसौ । तुदति परानिति तोदी । तथा देशनं दिगुपदेशो व्यूहरचनादिविषयः सह दिशा वर्तत इति सदिक् । तथा न गणेन सहायवर्गेण मदो यस्यासावगणमदः । स्वभुजबलसहायकापेक्ष इत्यर्थः । सदा सर्वकालमेव । कीदृशं बलम् । अकलहं परिभूतत्वान्निर्वैरम् । अत एव दमेहाया उपशमचेष्टाया अवसरः कालो यस्य तत्तथाभूतम् । तथास्यन्ते क्षिप्यन्त इत्यासाः शरास्तान्द्यन्ति खण्डयन्तीत्यासदा धानुष्काः सह तैर्वर्तत इति सासदम् । तथा गदाभिः सारमुत्कृष्टम्। एष। संस्कृतवाक्यार्थः । सूरसेन्यास्तु—शरदि नभो वर्ण्यते—तो इति ततः प्रावृषोऽनन्तरं दृश्यतेऽवलोक्यते । गगनं.नभः। अद एतत् । कीदृशम् । कलहंसशतैरवलम्बितं चान्तरितं च। तथा आरतो निवृत्तो मेघानां घनानामवसरः कालो यत्र । यदि वा आरता उपरता मेघानामाप एव शरा बाणा यत्र तत्तथाभूतम् । तथा शाश्वतः स्थिरो मारः कामो यत्र। तथा गत आसारो वेगवर्षो यतस्तत्तथाभूतम् ।।

 अथ संस्कृतापभ्रंशयोः श्लेषोदाहरणमाह—

  [१]धीरागच्छदुमे हतमुदुद्धरवारिसदःसु ।
  अभ्रमदप्प्रसराहरणुरविकिरणा तेजःसु ॥ १५ ॥

 धीरेति । अत्र काचिद्गौरीसखी गङ्गायाः सपल्या व्यसनेन गौरीमानन्दयति—यथा हे उमे गौरी, धीरा स्वस्था भवेति क्रिया गम्यते । यतः, अभ्रे गगने माद्यत्युद्धतो भवति यः स तथाविधोऽपां जलानां प्रसरो यस्याः सा अभ्रमदप्प्रसरा गङ्गा अवेरिव गड्डरिकाया इव किरणं विक्षेपणं निर्वासनं यस्याः साविकिरणा । अहर्दिवसमपि । ‘कालाध्वनोरत्यन्तसंयोगे−' इति कर्म । अत एव हतमुद्गतहर्षा । तत एव चाणु: कृशा सत्यगच्छदपतत् । क्व। तेजःसु । कीदृशेषु । उद्वता धरा पृथ्वी प्रलयापन्निमग्ना सती यस्मात्तदुद्धरं तच्च तद्वारि च समुद्रजलं च तदेव सदो गृहं येषां तानि तथाविधानि तेषु । वडवानलतेजःस्वित्यर्थः । हरनिर्वासनदुःखिता सती गङ्गात्मानं वडवानलेन्धनीचकारेति भावार्थः। एष संस्कृतवाक्यार्थः ॥ अथवा काचित्सखी गौर्याः पुरतो हरसमरं वर्णयति— हे उमे, धीर्बुद्धिरागच्छदागता । कथमहतमुदनष्टहर्षे यथा भवति तथोद्गता निवृत्ता हरवारिणो हरनिषेधकाः शत्रवो यत्र कर्मणि तदुद्धरवारि यथा भवति । यथास्माकं बुद्धिस्तुष्टिश्चाभूत्तथा हरेणारयो जिता इत्यर्थः । सा च धीः सदःसु सभासु तेजःसु च परतेजोविषयेऽभ्रमत्प्रसृता तेजस्तस्तारेत्यर्थः। । कीदृशी धीः । सर्वगत्वादपामिव प्रसरो गतिर्यस्याः साष्प्रसरा । अहर्दिवसम् । सदेत्यर्थः । अणुः कुशाग्रीया । तथाविकिरणा निरसितुमशक्या । इति संस्कृतवाक्यार्थः ॥ अपभृंशस्य तु&mdashवर्षावर्णनम्&mdashहे धीराः, गच्छत्वपसरतु । किम् । तन्मेघकृतं तमो मेघतमः। कीदृशम् । दुर्धरा दुर्वारा वार्षिका वर्षासु भवा दस्यवश्चोरा यत्र। यदि वा वार्षिका मेघा एव दस्यवश्चौरास्तेजसो हरणाद्यत्र ।


  1. अपभ्रंशच्छाया—'धीरा गच्छतु मेघतमो दुर्धरवार्षिकदस्यु | अभ्रमदप्रसरा हरणं रविकिरणास्ते यस्य ॥'