पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४ अध्यायः]
४१
काव्यालंकारः ।

स्तेष्वपि ललति विलसतीत्येवंशीलं बलं सैन्यं यस्य स तथा तस्मिन् । तथामाले । ‘मल धारणे ।’ मलनं मालो न विद्यते मालो यस्यासावमालस्तस्मिन् । अनिवार्य इत्यर्थः । एष संस्कृतवाक्यार्थः ॥ मागधस्य तु—शे शलिले तत्सलिलं जलं शमन्तके शाम्यतः शमिनोऽपि मालेदि मारयति। कीदृशं तत् । कुरराः पक्षिविशेषास्तेषामालिः पङ्क्तिस्तदीयै रावैः शब्दै रोलः कलकलो यत्र तत्तथाभूतम् । तथा सारसालिरवेण सारसश्रेणिवाशितेन शूरं तद्विरहिमारणसमर्थम् । तथा कमलानां पद्मानामासवं मकरन्दाख्यं लान्ति ये ते च तेऽलिनश्च भ्रमरास्तैर्वरं श्रेष्ठं यत्तत् । तथा विषमं वियोगिभीषणमेवंविधं शरदि सलिलं विलोक्य मुनयोऽपि क्षुभ्यन्ति । इति मागधवाक्यार्थः ।।

 इदानीं संस्कृतपिशाचभाषाश्लेषोदाहरणमाह—

  [१] कमनेकतमादानं सुरतनरजतु च्छलं तदासीनम् ।
  अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ १३ ॥
 कमिति । कस्यचित्केनचित्पौरुषस्तुतिः कृता । ततोऽन्यस्तामसहमान आह&mash;हे। सुरतनः निधुवनपुरुष, ते तव पौरुषं न रणे इत्यामन्त्रणपदाभिप्रायः । तथा खमते शून्यबुद्धे, यस्त्वया वर्ण्यते स कं नरं जेतुमजतु गच्छतु । नास्त्येवासौ पुरुषो यं सोऽभिभविष्यतीत्यर्थः । कीदृशं नरम् । अनेकतमान्यादानान्युत्पत्तिस्थानानि यस्य तं तथाभूतम् । तथा छलं तदासीनं तां मायामाश्रितम् । आश्रयणार्थः 'आसिः' सकर्मकः । तथापां पतेरप्पतेर्वरुणस्येव मानो गर्वो यस्य तम् । तथागस्येव मन्दरस्येव निकाना दीप्तिर्यस्य तम् । अथवा न गच्छतीत्यगो निकानो यस्येत्यन्यथास्य वाक्यस्यार्थः । अथवा यदा न सन्त्येवंविधास्तदा सर्वमेव तेन यतो जितमतः स कमिव नरं जेतुमजत्विति स्तुतिरेवात्रार्थः। इति संस्कृतवाक्यार्थः ॥ पैशाचस्य तु—केनचिद्विश्यानामुपकारः कृतः । ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते—स पूजितगणिकः पुरुषो गणिकानां वेश्यानामप्पतिमानमप्रतीपमपूजनं न क्षमते न सहते । किमर्थम् । रञ्जयितुमात्मरञ्जनाय । इदानीं मां ताः पूजयन्त्वित्यवमर्थम् । कीदृशीनां गणिकानाम् । कामविषये कृतामोदानां कृतहर्षाणाम् । तथा सुरन(स्वर्ण)रजताभ्यामुच्छलन्त्यो विलसन्त्यो दास्यो यासाम् । पिशाचभाषायां कागचजतदपयवानां लोपो न क्रियत इत्यादिपूर्वोक्तं लक्षणम् ॥

 इदानीं संस्कृतसूरसेनोवाक्योदाहरणमाह—

  तो[२]दी सदिगगणमदोऽकलहं स सदा बलं विदन्तरिदम् ।
  आर दमेहावसरं सासदमारं गदासारम् ॥ १४ ॥ ।
 तोदीति । कश्चिन्नरो रणस्थो वण्र्यते—स कश्चिच्छूरो विपण्डित इदमारमरिसक्तं


  1. पैशाचीछाया—‘कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् । अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम् ॥
  2. सूरसेनीछाया—‘ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम्। आर तमेघावसरं शाश्वतमारं गतसारम्॥'