पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला ।

भाषाश्लेष इति । कीदृशानि । सुव्यक्तं स्फुटं यथा भवत्येवं विविक्ताः पृथगुपलभ्यमानविवेका भिन्ना द्वित्राद्या भाषा येषु तानि तथाविधानि ॥

  तत्र संस्कृतप्राकृतश्लेषोदाहरणम्—

  [१]सरसबलं स हि सूरोऽसङ्गामे माणवं धुरसहावम् ।
  मित्तमसीसरदवरं ससरणमुद्धर इमं दबलम् ॥ ११ ॥

  सरसबलमिति । कश्चित्कंचिदाह—स सूरो रविरिमं तं माणवं रोगित्वात्कुत्सितंमनुष्यमसीसरत्सारयामास । गतियुक्तं चकारेत्यर्थः । कीदृशम् । सरसं गतिलाभात्प्रत्यग्रं बलं शक्तिर्यस्य तं तथाभूतम् । हि स्फुटम् । क्व सति पूर्वमसीसरदसङ्गामे न विद्यते सङ्गो यत्रासावसङ्गः स चासावामश्च तस्मिन् । असंपर्कयोग्ये रोगे सतीत्यर्थः । पुनः कीदृशं माणवम् । धुरसहावं धुरि प्रथममसहासमर्था अवा रक्षितारो वैद्या यस्य । पूर्वे वैद्यत्यक्तमित्यर्थः। सूरः कीदृशः। मिन्मेद्यति स्निह्यति । कृपणेषु दयापर इत्यर्थः । कीदृशम् । तमवरं सरोगत्वादश्रेष्ठम् । तथा दवं लातीति दवलमुपतापयुक्तम् । कीदृशः । ससरणमुद्धरः सह सरणेन ज्ञानेन वर्तन्ते ये ते ससरणा योगिनस्तेषां मुदं हर्षे धारयति पुष्णातीति कृत्वेति संस्कृतवाक्यार्थः । प्राकृतस्य तु—काचिद्भर्तारमुद्दिश्य सखीमाह—हे सखि, स शूरोऽस्मद्भर्ता मित्रं सुहृदं सङ्ग्रामे रण उद्धरति रक्षति । कीदृशम् । शरैर्बाणैः शबलं कर्बुरम् । तथा मानेन गर्वेण बन्धुरो रम्यः स्वभावो यस्य तं तथाभूतम् । तथासीश्वराणां खङ्गयोधिनां दवरमुपतापदम् । तथा सह शरणेन वर्तते यस्तं सशरणं परित्राणार्थिनामार्तिहरम्। यद्येवंविधं तत्किमिति तेनोद्ध्रियत इत्याह्&mbsp; मन्दबलं मन्दमसमर्थे बलं यस्य तं तथाभूतम् । बहुयोधनादक्षमसैन्यमिति ।

  इदानीं संस्कृतमागध्युदाहरणम्—

  [२]कुललालिलावलोले शालिलेशे शालशालिलवशूले।
  कमलाशवलालिबलेऽमाले दिशमन्तकेऽविशमे ॥ १२ ॥

  कुलेति । कश्चिज्जातसंसारभयो वक्ति—एवंविधेऽन्तके मृत्यौ सति ए विष्णौ विषये या दिङ्मार्गस्तां दिशमविशं प्रविष्टोऽस्मि । कीदृशेऽन्तके । कुलानि लालयन्ति पोषयन्ति तच्छीलाः कुललालिनः सत्पुरुषास्तेषां लावे छेदे कर्तव्ये लोलो लम्पटो यस्तस्मिन्। तथा शलन्तीति शलाः सोद्यमास्ते विद्यन्ते यत्र देशे स शली । यद्वा शलं खड्गकोषवध्रोऽस्ति येषां ते शलिनः खड्गयोधास्तांल्लिशत्यल्पीकरोतीति शलीलेशस्तस्मिन् । तथा शालैर्गृहैः शालन्ते श्लाघन्त इत्येवंशीलाः शालशालिनस्तांल्लुनातीति शालशालिलवः स चासौ शूलं च । पीडाकरत्वात् । तथा कमला लक्ष्मीस्तस्याः शवा दरिद्रा−


  1. प्राकृतच्छाया—'शरशबलं सखि शूरोऽसङ्ग्रामे मानबन्धुरस्वभावम् । मित्रमसीश्वरदवरं सशरणमुद्धरति मन्दबलम् ॥ '
  2. मागधीछाया—‘कुररालिरावरोलं सलिलं तत्सारसालिरवशूरम् । कमलासवलालिवरं मारयति शाम्यतो विषमम् ॥'