पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४ अध्यायः]
३९
काव्यालंकारः ।

ध्यानमदा मन्त्रिप्राया उच्यन्ते । धवलयेन कर्मकौशलेन तिरोहिता न्यक्कृता अनवमध्यानमदा यैस्ते तथा ते च तेऽहिताश्च शत्रवस्तेषु स्तनिते शब्दिते । अन्योऽप्यत्र यदि भङ्गः संभवति सोऽपि तद्विदा विचार्य कर्तव्य एव ॥

 अथ लिङ्गश्लेषः—

  स्त्रीपुंनपुंसकानां शब्दानां भवति यत्र सारूप्यम् ।
  लघुदीर्घत्वसमासैर्लिङ्गश्लेषः स विज्ञेयः ॥ ८ ॥
  स्त्रीपुमिति । यत्र स्त्रीपुंनपुंसकलिङ्गानां सारूप्यं भवत्यसौ लिङ्गश्लेषः । कैः कृत्वा। लघुदीर्घत्वसमासैरिति क्वचिद्दीर्घस्य लघुत्वेन । ह्रस्वत्वेनेत्यर्थः । क्वचिद्ध्रस्वस्य दीर्घत्वेन क्वचित्समासेन चेति ॥

  उदाहरणम्—

   देवी मही कुमारी पद्मानां भावनी रसाहारी ।
   सुखनी राज तिरोऽहितमहिमानं तस्य सद्धारी ॥ ९ ॥

 देवीति । कश्चिद्राजानमाशास्ते—त्वं राज शोभस्व। तथा तिरश्चीनं यथा भवत्येवमहितं शत्रुं तस्य क्षयं नय। 'तसु उपक्षये’ इत्यस्य रूपम् । कीदृशस्त्वम् । दीव्यतीति देवी क्रीडारतः, मही उत्सववान्, कुत्सितांश्चौरादीन्मारयतीति कुमारी । अथवा कुः पृथ्वी मारः कामस्तौ विद्येते यस्य स कुमारी । तथा पद्मानां श्रियां भावं सत्तां नयति भृत्येष्विति भावनी । सेवकानां लक्ष्मीप्रद इत्यर्थः । रसां भुवमाहरत्यात्मसात्करोतीति रसाहारी । यदि वा रसैर्मधुरादिभिराहरतीति रसाहारी । सुखं नयति भृत्यानिति सुखनीः, सतः शिष्टान्धारयति पोषयतीति सद्धारी, शोभनहारवान्वा । कीदृशम् । अहितमहिमानमहेर्वृत्रस्येव मानोऽहंकारो यस्य तं तथाविधम् । अयमेकस्य वाक्यस्यार्थः । । अपरस्य तु—मही पृथ्वी राजति शोभते । देवीति पूजापदम् । कीदृशी मही। कुमार्यकृतविवाहा नित्यतरुणी वा । पद्मानां नलिनानां भावन्युत्पादिका । रसाञ्जलादीनाहरति गृह्णातीति । ‘कर्मण्यणन्तादी'। सुखनिः शोभनाकरा । तथानन्तस्य शेषस्य रोहित आरोपितो महिमा माहात्म्यं यया । स्वयमात्मधारणे शक्तयाप्यनन्तस्य लोके माहात्म्यख्यापनार्थमात्मभरस्तयार्पित इत्यर्थः। सद्विद्यमानं वस्तुजातं धरतीति । ‘कर्मण्यणन्तादी ।’ देवीत्यादौ दीर्घत्वे रसाहारीत्यादौ दीर्घत्वे समासे च सारूपं दीर्घस्य । ह्रस्वत्वं त्वन्यत्र स्वधिया द्रष्टव्यम् ॥

  अथ भाषाश्लेषः—

  यस्मिन्नुच्चार्यन्ते सुव्यक्तविविक्तभिन्नभाषाणि।
  वाक्यानि यावदर्थं भाषाश्लेषः स विज्ञेयः ॥ १० ॥
  यस्मिन्निति । यत्र यावदर्थे कवेर्यावन्तोऽर्था विवक्षितास्तावन्ति वाक्यान्युच्चार्यन्ते स