पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४ अध्यायः]
४३
काव्यालंकारः ।

तथा यस्य मेघतमसस्ते रविकिरणाः सूर्यकरा हरणं हर्तारः। कीदृशाः । अभ्रमदप्रसरा भ्रमो भ्रान्तिर्न भ्रमो निश्चयस्तं ददातीत्यभ्रमदः प्रसरो येषां ते तथाविधाः । यथावस्थितं वस्तुस्वरूपं ये प्रकाशयन्तीत्यर्थः ।।

 अथ भाषाश्लेषस्य प्रकारान्तरमाह—

  वाक्ये यत्रैकस्मिन्ननेकभाषानिबन्धनं क्रियते ।
  अयमपरो विद्वद्भिर्भाषाश्लेषोऽत्र विज्ञेयः ॥ १६ ॥
 वाक्य इति । यत्रैकस्मिन्नेव वाक्येऽनेकभाषा निबध्यन्ते सोऽयमपरः पूर्वस्मादन्यो भाषाश्लेषोऽत्र ज्ञातव्यः । पूर्वत्रानेकार्थोऽनेकाभिर्भाषाभिरुक्तः, इह त्वेक एवार्थो बह्वीभिर्भाषाभिरुच्यत इति तात्पर्यार्थः ॥   उदाहरणम्—   समरे भीमारम्भं विमलासु कलासु सुन्दरं सरसम् ।
  सारं सभासु सूरिं तमहं सुरगुरुसमं वन्दे ॥ १७ ॥

 समर इति । तमहं सूरिं वन्दे स्तौमि । कीदृशम् । समरे रणे भीमारम्भं भीषणोद्योगम्। विमलासु कलासु सुन्दरं निर्मलकलाविषये शोभनम् । सरसं शृङ्गारादिरसोपेतम् । तथा सभासु सदःसु सारमुत्कृष्टम् । अत एव सुरुगुरुसमं बृहस्पतितुल्यम् । अयमेकत्रार्थे संस्कृतप्राकृतश्लेषः । समसंस्कृतप्राकृतशब्दरचितत्वात् । एवमुत्तरत्रापि समसंस्कृतमागधशब्दरचितत्वादित्यादि द्रष्टव्यम् ।।

 समसंस्कृतमागधशब्दोदाहरणमाह—

  शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा ।
  अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥ १८ ॥
  शूलमिति । दुःशला दुष्टचारित्राः खलाः शत्रवोऽशिवं पीडादिकं दिशन्ति ददति यतोऽतस्ते शबलाः पातकिनः शूलं वा शलन्त्वधिरोहन्तु । शं वा सुखं वा विशन्त्वधिगच्छन्तु । वशं पराधीनतां वा यान्तु । विशङ्काः स्वच्छन्दा वा भवन्तु तच्चिन्तामपि न कुर्मः । कीदृशमशिवम् । अविद्यमानः शम उपशमो यस्यां सा तथाविधा दशावस्था यत्र तदशमदशम् ॥

 संस्कृतपैशाचिकयोः श्लेषोदाहरणमाह—

  चम्पककलिकाकोमलकान्तिकपोलाथ दीपिकानङ्गी ।
  इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ १९ ॥
 चम्पकेति । काचिन्नायिका गजेन्द्रसमगमना चञ्चलदीर्घलोचना च । तथा चम्पककलिकावत्कोमलकान्ती रम्यरुचो कपोलौ यस्याः सा तथाविधा । तथानङ्गस्येयमानङ्गी दीपिका । तया कामस्य प्रकाशितत्वात् । सा लपितुं वक्तुमिच्छति ।।