पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
काव्यमाला ।

कुर्वन्तीति । सुगमम् । नवोढानां स्वरूपमाह दृष्ट्वा प्रियमायान्तं तन्मनसस्तेन संवदन्त्यो वा । मन्मथजनितस्तम्भाः प्रतिहतचेष्टाश्च जायन्ते ॥ ९ ॥ किमपि प्रियेण पृष्टास्तस्याथ ददत्यसंस्तुतस्येव । साध्वससादितकण्ठ्यः स्खलितपदैरुत्तरं वाक्यैः ॥ १० ॥ यत्किमपि रहस्यतमं कथं कथयेत्प्रियः सखीमध्ये । शण्वन्ति स्फारदृशस्तदुदितघंनकण्टकवेदाः ॥ ११ ॥ 1 मदनव्याकुलमनसः सकल तस्याथमनवगत्यव । हुंकारं तदपि मुहुः कुर्वन्त्यवधारयन्त्य इव ॥ १२ ॥ दृष्णेति । किमिति । यदिति । मदनेति । सुगमम् । नवपरिणीता वध्वो यत्नादपनीय साध्वसं साम्ना । नीता अपि विस्रम्भं रहः सुनिर्वन्धिभी रमणैः ॥ १३ ॥ प्रेर्य प्रेर्य सखीभिनीयन्ते वासवेश्म दयितस्य। तत्संगमाभिलाषे भूयासि लज्जाहतप्रसरे ॥ १४ ॥ (युग्मम्) [नवेति । प्रयति । सुगमम् ॥] . ननु किमिति सखीभिः प्रार्थनया नीयन्ते नायकः कथं हठादेव न प्रवर्तयतीत्याह सुकुमाराः पुरुषाणामाराध्या योषितः सदा तल्पे । तदनिच्छया प्रवृत्तः शृङ्गार.नाशयेन्मूखीः ॥ १५ ॥ सुकुमारा इति । तस्मात्कि कर्तव्यमित्याह वाग्मी सामप्रवणश्चाटुभिराराधयेन्नारीम् । तत्कामिनां महीयो यस्माच्छृङ्गारसर्वस्वम् ॥ १६ ॥ वाग्मी ति । सुगमम् ।। अध्यायमुपसंहरन्कवेरुपदेशमाह सुकविभिरभियुक्तैः सम्यगालोच्य तत्वं त्रिजगति जनताया यत्स्वरूपं निबद्धम् ।