पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४ अध्यायः]
१५९
काव्यालंकारः ।

तदिदमिति समस्तं वीक्ष्य काव्येषु कुर्या . त्कविरविरलकीर्तिप्राप्तये तद्वदेव ॥ १७ ॥ सुकविभिरिति । सुगमम् । इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत त्रयोदशोऽध्यायः समाप्तः । । चतुर्दशोऽध्यायः । अथ संभोगं व्याख्याय विप्रलम्भशृङ्गारं व्याचिख्यासुराह अथ विप्रलम्भनामा शृङ्गारोऽयं चतुर्विधो भवति । प्रथमानुरागमानप्रवासकरुणात्मकत्वेन ॥ १ ॥ अथेति । अथशब्द आनन्तर्ये । संभोगानन्तरम् । विप्रलम्भोऽयं ‘धृङ्गारश्चतुर्विधो भवति । कथं चतुर्विध इत्याह--प्रथमानुरागादय आत्मा स्वरूपं यस्य तद्भावस्तत्त्वं तेन हेतुना । प्रकारनिर्देशादेव चातुर्विध्ये लब्धे चतुर्विधग्रह ऋणं चतुर्विधस्याप्यस्य ध्ङ्गरवनि- यमार्थम् । चतुर्विधोऽपि धृङ्गार एवायम् । केचिद्धि करुणरस एव विप्रलम्भभेदं करुण मन्तर्भावयन्ति । तदसत् । वैलक्षण्यात् । शुद्धे हि करुणे ङ्गारस्पर्श एव न विद्यते । करुणविप्रलम्भस्तु शृङ्गार एव । यथा कालिदासस्य-प्रतिपद्य मनोहरं वपुः पुनरप्या दिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ।’ अथैषामैव यथाक्रमं लक्षणमाह आलोकनादिमात्रप्ररूढगुरुरागयोरसंप्राप्तौ । नायकयोर्या चेष्टा स प्रथमो विप्रलम्भ इति ॥ २ ॥ आलोकनेति । सुगमम् ।। ता एव काश्चिच्चेष्टा आह हिमसलिलचन्द्रचन्दनमृणालकदलीदलादि तत्रैतौ । डैर्वारस्मरतापौ सेवेते निन्दतः क्षिपतः ॥ ३ ॥ हिमेति । सुगमम् ॥ अथास्य सूचकानवस्थाभेदानाह- आदावभिलाषः स्याच्चिन्ता तदनन्तरं ततः स्मरणम् । तदनु च गुणसंकीर्तनमुद्वेगोऽथ प्रलापश्च ॥ ४ ॥ उन्मादस्तदनु ततो व्याधिर्जडता ततस्ततो मरणम् । इत्थमसंयुक्तानां रक्तानां दश दशा ज्ञेयाः ॥ १ ॥ (युग्मम्) आदाविति । उन्माद इति । सुगमम् । एताश्च दशाः कादम्बरीकथायां प्रकटाः।