पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३ अध्यायः]
१५७
काव्यालंकारः ।

निधुवनमात्रं संभोगशृङ्गार इति । प्रवासविप्रलम्भस्य संभोगशृङ्गारत्वनिषेधार्थमाह--इ- द्वमुदाविति । प्रमुदितावित्यर्थः । अथास्य संभोगशृङ्गारस्यानुभवमाह- तत्र भवन्ति स्त्रीणां दाक्षिण्यनेहसौकुमार्याणाम् । अविरोधिन्यश्श्रेष्टा देशे काले च सर्वासाम् ॥ २ ॥ तत्रेति । सुगमं न वरम् । दाक्षिण्यमनुवृत्तिः । स्नेहः प्रेम । सौकुमार्यं मार्दवम् । देशो वनोद्यानादिः। कालो वसन्तंसुरतादिः ।। दयितचेष्टानुकारो नाम लीला स्रोणां भवतीति दर्शयितुमाह दयितस्य सखीमध्ये चेष्टां मधुरैर्वचोभिरुचितैस्ताः । ललितैरङ्गविकारैः क्रीडन्त्यो वानुकुर्वन्ति ॥ ३ ॥ दयितस्येति । सुगमम् ।। तत्रापि तदनुकार्यं यदनुकर्तुं शक्यते, न तुल्वणमपि . । तदाह अनुकाये न तु नाया यत्प्रेरणकर्म तत्परोक्षे सा । अनुकुर्वती विजह्यान्माधुर्यं सौकुमार्यं च ॥ ४ ॥ अनुकार्यमिति । सुगमं न वरम् । तुरवधारणे । नैवेत्यर्थः चेष्टान्तराण्याह अपहारे वसनानां कुचकलशादिग्रहे रतान्ते च । अन्तर्निहितानन्दाः पुरुषेषु रुषेव वर्तन्ते ॥ ९ ॥ अपहार इति । सुगमम् ॥ समकालं निन्दन्ति त्रस्यन्ति हसन्स्यहेतु लज्जन्ति । अस्यन्त्यालिङ्गन्ति च दयितान्भूतैरिवाविष्टाः ॥ ६. ॥ समकालमिति । सुगमम् ॥ पूर्वमुक्तम् ’ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्'११९) इति,तत्कचित्स ध्वेवेति दर्शयितुमाह समये त्वरावतीनामपदेषु विभूषणादिविन्यासः । भवति गुणाय विभाविततात्पर्यस्मेरितालिरपि ॥ ७ ॥ समय इति । सुगमम् । अननुकूलाचरणं सर्वत्र दोषत्वेन प्रसिद्धम्, तस्य विशेषगुणत्वमाह कुर्वन्ति प्रतिकूलं रहसि च यद्यास्त्रियं प्रति प्रमदाः ।। तत्तद्रणाय तासां भवति मनोभूप्रसादेन ॥ ८ ॥