पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
१५
काव्यालंकारः ।


णहे निर्वेदविस्मययोर्निपातः । यथा -हीमाणहे पलिस्संता हगे एदिणा नियविहिणो दुव्विलसिदेण। हीमाणहे जीवंतवच्छा मे जनणी । णं निपातो नन्वर्थे । यथा-णं भणाभि। अम्महे हर्षे निपातः । हीहीभौ विदूषकाणां हर्षे । शेषं प्राकृतसमं द्रष्टव्य मिति । तथा प्राकृतमेवापभ्रंश: । स चान्यैरुपनागराभीरग्राम्यत्वभेदेन त्रिधोक्तस्तन्नि रासार्थमुक्तं भूरिभेद इति । कुतो देशविशेषात्कारणात् । तस्य च लक्षणं लोकादेव सम्यगवसेयम् । सामान्यं तु किंचिदिदम् । यथा न लोपोऽपत्रंशेऽधोरेफस्य । यथा प्रखुरभ्रायरवघ्रेणेत्यदि । तद्वदभूतोऽपि क्काप्यधो रेफः क्रियते । यथा- व्राचालउव्रच यथा- व्रचउक्राखरूखीत्यादि । तथोदन्तस्य दकारो भवति । यथा-गोयुगंजिह्मलिदुचा- रितु इत्यादि । तथा ऋतः स्थाने ऋकारो वा भवति । यथा-तृणसमुगणिजईं । पक्षे तणं इत्यादि लक्ष्यादवसेयम् । व्यत्ययो बहुलं भाषालक्षणस्य । यथा-थहकारयोः सूर सेन्यां धत्वमुक्तं मागध्यामपि भवति । आभीरीभाषा अपभ्रंशस्था कथिता क्वचिन्मा- गध्यामपि दृश्यते । सूरसेन्यामिदानींशब्दे इलोप उक्तः शुद्धप्राकृतेऽपि भवति । तथा - कगचजतदपयादीनां पैशाचिक्यां स्वरशेषत्वाभावोऽभिहितः। खघधफभादीनां हत्वाद्य भावश्च सूरसेन्यामपि भवति । इत्याद्यन्यदपि सांकर्यं महाकविलक्ष्यादवसेयमिति । विशेषतस्तु भाषालक्षणं प्रन्थान्तरादवसेयमिति ॥

एवं शब्दलक्षणं गुणदोषांश्चाभिधायेदानीं तस्यालंकारान्विवक्षुराह-

वक्रोक्तिरनुप्रासो यमकं श्लेषस्तथा परं चित्रम् । शब्दस्यालंकाराः श्लेषोऽर्थस्यापि सोऽन्यस्तु ॥ १३ ॥

वक्रोक्तिरिति । तथाशब्दः समुच्चये । अन्यैरनुक्तं चित्रं शब्दालंकारमध्ये समुची यते । परमुत्कृष्टमपरं वा । अन्यदित्यर्थः । शब्दस्येत्यर्थनिवृत्यर्थम् । अतश्च कश्चिदा शङ्कते--शब्दालंकार एवायं श्लेषो न त्वर्थालंकारोऽपीति तं प्रत्याह-श्लेषोऽर्थस्यापीति किमयमेव श्लेषोऽर्थस्यापि नेत्याह-सोऽन्यस्तु । तुरवधारणे । सोऽन्यादृक्ष एवेत्यर्थः ।

तेन यदन्यैरभेदेन श्लेषलक्षणमवादि तदयुक्तमित्युक्तम् । नन्वलंकारौऽलंकार्याद्भिन्नो

दृष्टः । यथा पुरुषात्कटकादयः। न चैवमत्र भेदमवगच्छाम इति सत्यम्। विद्यत एव भेदः। यथा—‘किं गौरि मां प्रति रुषा’ इति शब्दसमुदायोऽलंकार्य एव। तस्य यद्भ ड्गयन्तरेण व्याख्यानं सोऽलंकारः । अनुप्रासेऽपि प्रथमोक्ता वर्णा आवृत्ताश्चान्यो- न्यमलंकुर्वते । यथा हि--द्वॉ साधू संगतौ परस्परमलंकुर्वाते इति । एवं यमके श्लेषे च द्रष्टव्यम् । चित्रेऽपि स्पष्टो वर्णक्रमोऽलंकार्यो भङ्गयन्तरकृतस्त्वलंकार इति ॥ यथोद्देशं निर्देश इति पूर्वे वक्रोक्तिलक्षणमाह-

वक्रा तदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः । वचनं यत्पदभड्गैर्ज्येया सा श्लेषवक्रोक्तिः ॥ १४ ॥

वक्र प्रतिपादकेन तस्मादुत्तरवचनादन्यथा प्रकारान्तरेणोक्तम् । तदन्यथोक्तं व्या